Go To Mantra

उत्त॑रं द्विष॒तो माम॒यं म॒णिः कृ॑णोतु देव॒जाः। यस्य॑ लो॒का इ॒मे त्रयः॒ पयो॑ दु॒ग्धमु॒पास॑ते। स मा॒यमधि॑ रोहतु म॒णिः श्रैष्ठ्या॑य मूर्ध॒तः ॥

Mantra Audio
Pad Path

उत्ऽतरम् । द्विषत: । माम् । अयम् । मणि: । कृणोतु । देवऽजा: । यस्य । लोका: । इमे । त्रय: । पय: । दुग्धम् । उपऽआसते । स: । मा । अयम् । अधि । रोहतु । मणि: । श्रैष्ठ्याय । मूर्धत: ॥६.३१॥

Atharvaveda » Kand:10» Sukta:6» Paryayah:0» Mantra:31


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सब कामनाओं की सिद्धि का उपदेश।

Word-Meaning: - (अयम्) यह (देवजाः) देव [परमेश्वर] से उत्पन्न (मणिः) मणि [प्रशंसनीय वैदिक नियम] (मा) मुझको (द्विषतः) वैरी से (उत्तरम्) अधिक ऊँचा (कृणोतु) करे। (इमे) यह (त्रयः) तीनों [सृष्टि, स्थिति और प्रलय] (लोकाः) लोक (यस्य) जिस [वैदिक नियम] के (दुग्धम्) पूर्ण (पयः) ज्ञान को (उपासते) भजते हैं, (सः अयम्) वही (मणिः) मणि [प्रशंसनीय वैदिक नियम] (मा) मुझको (मूर्धतः) शिर पर से (श्रैष्ठ्याय) प्रधान पद के लिये (अधि) ऊपर (रोहतु) चढ़ावे ॥३१॥
Connotation: - मनुष्य ईश्वरप्रणीत सत्य नियम को मानकर संसार में प्रधान पद प्राप्त करे ॥३१॥
Footnote: ३१−(उत्तरम्) उच्चतरम् (द्विषतः) शत्रुसकाशात् (मा) माम् (अयम्) (मणिः) प्रशस्तो वैदिकनियमः (कृणोतु) करोतु (देवजाः) जनसनखनक्रमगमो विट्। पा० ३।२।६७। देव+जनी प्रादुर्भावे-विट्। विड्वनोरनुनासिकस्यात्। पा० ६।४।४१। नस्य आत्त्वम्। देवात् परमेश्वराज् जातः (यस्य) (लोकाः) (इमे) (त्रयः) सृष्टिस्थितिप्रलयरूपाः (पयः) पय गतौ-असुन्। ज्ञानम् (दुग्धम्) प्रपूर्णम् (उपासते) पूजयन्ति (सः) (मा) माम् (अयम्) (अधि) उपरि (रोहतु) रोहयतु (मणिः) (श्रैष्ठ्याय) श्रेष्ठपदाय (मूर्धतः) मस्तकात् ॥