यमब॑ध्ना॒द्बृह॒स्पति॒र्वाता॑य म॒णिमा॒शवे॑। तमि॒मं दे॒वता॑ म॒णिं प्रत्य॑मुञ्चन्त श॒म्भुव॑म्। स आ॑भ्यो॒ विश्व॒मिद्दु॑हे॒ भूयो॑भूयः॒ श्वःश्व॒स्तेन॒ त्वं द्वि॑ष॒तो ज॑हि ॥
यम् । अबध्नात् । बृहस्पति: । वाताय । मणिम् । आशवे । तम् । इमम् । देवता: । मणिम् । प्रति । अमुञ्चन्त । शम्ऽभुवम् । स: । आभ्य: । विश्वम् । इत् । दुहे । भूय:ऽभूय: । श्व:ऽश्व: । तेन । त्वम् । द्विषत: । जहि ॥६.१७॥
PANDIT KSHEMKARANDAS TRIVEDI
सब कामनाओं की सिद्धि का उपदेश।