Go To Mantra
Viewed 85 times

जि॒तम॒स्माक॒मुद्भि॑न्नम॒स्माक॑म॒भ्यष्ठां॒ विश्वाः॒ पृत॑ना॒ अरा॑तीः। इ॒दम॒हमा॑मुष्याय॒णस्या॒मुष्याः॑ पु॒त्रस्य॒ वर्च॒स्तेजः॑ प्रा॒णमायु॒र्नि वे॑ष्टयामी॒दमे॑नमध॒राञ्चं॑ पादयामि ॥

Mantra Audio
Pad Path

जितम् । अस्माकम् । उत्ऽभिन्नम् । अस्माकम् । अभि । अस्थाम् । विश्वा: । पृतना: । अराती: । इदम् । अहम् । आमुष्यायणस्य । अमुष्या: । पुत्रस्य । वर्च: । तेज: । प्राणम् । आयु: । नि । वेष्टयामि । इदम् । एनम् । अधराञ्चम् । पादयामि ॥५.३६॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:36


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (जितम्) जय किया गया (अस्माकम्) हमारा [हो], (उद्भिन्नम्) निकासी किया हुआ (अस्माकम्) हमारा [हो], (विश्वाः) सब (पृतनाः) [शत्रुओं की] सेनाओं और (अरातीः) कञ्जूसियों को (अभि अस्थाम्) मैंने रोक दिया है। (इदम्) अब (अहम्) मैं (आमुष्यायणस्य) अमुक पुरुष के और (अमुष्याः) अमुक स्त्री के (पुत्रस्य) पुत्र का (वर्चः) प्रताप, (तेजः) तेज (प्राणम्) प्राण और (आयुः) जीवन को (नि वेष्टयामि) लपेटे लेता हूँ, (इदम्) अब (एनम्) इसको (अधराञ्चम्) नीचे (पादयामि) गिराता हूँ ॥३६॥
Connotation: - प्रजापालक शूर वीर पुरुष एक शत्रु को जीतकर उसकी आय से सुप्रबन्ध करे और दूसरे प्रसिद्ध-प्रसिद्ध वैरियों को इसी प्रकार अधीन करे ॥३६॥
Footnote: ३६−(जितम्) जयेन प्राप्तम् (अस्माकम्) धर्मात्मनाम् (उद्भिन्नम्) उद्भेदनं स्फुरणम्। आयधनम् (अस्माकम्) (अभि अस्थाम्) अभिभूतवानस्मि (विश्वाः) सर्वाः (पृतनाः) अ० ३।२१।३। शत्रुसेनाः (अरातीः) अदानशक्तीः। अनुदारताः (इदम्) इदानीम् (अहम्) शूरः (आमुष्यायणस्य) अ० ४।१६।९। नडादिभ्यः फक्। पा० ४।१।९९। अमुष्य−फक्। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च। वा० पा० ६।३।२१। षष्ठ्या अलुक्। अमुष्य पुरुषस्य पुत्रस्य (अमुष्याः) अमुकजनन्याः (पुत्रस्य) सुतस्य (वर्चः) प्रतापम् (तेजः) प्रकाशम् (प्राणम्) (आयुः) जीवनम् (नि) नितराम् (वेष्टयामि) आच्छादयामि (इदम्) (एनम्) शत्रुम् (अधराञ्चम्) अधोगतम् (पादयामि) पातयामि ॥