Go To Mantra
Viewed 91 times

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा कृ॒षिसं॑शि॒तोऽन्न॑तेजाः। कृ॒षिमनु॒ वि क्र॑मे॒ऽहं कृ॒ष्यास्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

Mantra Audio
Pad Path

विष्णो: । क्रम: । असि । सपत्नऽहा । कृषिऽसंशित: । अन्नऽतेजा: । कृषिम् । अनु । वि । क्रमे । अहम् । कृष्या: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३४॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:34


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा, (कृषिसंशित), खेती से तीक्ष्ण किया गया और (अन्नतेजाः) अन्न से तेज पाया हुआ (असि) है। (कृषिम् अनु) खेती के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (कृष्याः) खेती से (तम्) उस (शत्रु) को.... म० २५ ॥३४॥
Connotation: - मनुष्य खेती और अन्न के प्रयोग से ऐश्वर्यवान् होवें ॥३४॥
Footnote: ३४−(कृषिसंशितः) भूमिकर्षणात् तीक्ष्णीकृतः (अन्नतेजाः) अदनीयपदार्थात् प्राप्ततेजाः। अन्यत् सुगमं गतं च ॥