Go To Mantra
Viewed 138 times

विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाप्सुसं॑शितो॒ वरु॑णतेजाः। अ॒पोऽनु॒ वि क्र॑मे॒ऽहम॒द्भ्यस्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥

Mantra Audio
Pad Path

विष्णो: । क्रम: । असि । सपत्नऽहा । अप्सुऽसंशित: । वरुणऽतेजा: । अप: । अनु । वि । क्रमे । अहम् । अत्ऽभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३३॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:33


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - तू (विष्णोः) विष्णु [सर्वव्यापक परमेश्वर] से (क्रमः) पराक्रमयुक्त, (सपत्नहा) वैरियों का नाश करने हारा, (अप्सुसंशित), जलों से तीक्ष्ण किया गया, (वरुणतेजाः) मेघ से तेज पाया हुआ (असि) है। (अपः अनु) जलों के पीछे (अहम्) मैं (वि क्रमे) पराक्रम करता हूँ, (अद्भ्यः) जलों से (तम्) उस (शत्रु) को.... म० २५ ॥३३॥
Connotation: - मनुष्य जलविद्याओं में निपुण होकर मेघसमान उपकारी होवे ॥३३॥
Footnote: ३३−(अप्सुसंशितः) जलसकाशात् तीक्ष्णीकृतः (वरुणतेजाः) मेघात् प्राप्ततेजाः (अपः) जलानि। अन्यत् सुगमं गतं च ॥