विष्णोः॒ क्रमो॑ऽसि सपत्न॒हौष॑धीसंशितः॒ सोम॑तेजाः। ओष॑धी॒रनु॒ वि क्र॑मे॒ऽहमोष॑धीभ्य॒स्तं निर्भ॑जामो॒ यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मः। स मा जी॑वी॒त्तं प्रा॒णो ज॑हातु ॥
विष्णो: । क्रम: । असि । सपत्नऽहा । ओषधीऽसंशित: । सोमऽतेजा: । ओषधी: । अनु । वि । क्रमे । अहम् । ओषधीभ्य: । तम् । नि: । भजाम: । य: । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्म: । स: । मा । जीवीत् । तम् । प्राण: । जहातु ॥५.३२॥
PANDIT KSHEMKARANDAS TRIVEDI
विद्वानों के कर्तव्य का उपदेश।