Viewed 94 times
स॑मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन। अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत् ॥
Pad Path
समुद्रम् । व: । प्र । हिणोमि । स्वाम् । योनिम् । अपि । इतन । अरिष्टा: । सर्वऽहायस: । मा । च । न: । किम् । चन । आममत् ॥५.२३॥
Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:23
PANDIT KSHEMKARANDAS TRIVEDI
विद्वानों के कर्तव्य का उपदेश।
Word-Meaning: - [हे विद्वानो !] (वः) तुम्हें (समुद्रम्) प्राणियों के यथावत् उदय करनेहारे [परमात्मा] की ओर (प्र हिणोमि) मैं आगे बढ़ाता हूँ, (अरिष्टाः) बिना हारे हुए (सर्वहायसः) सब ओर गतिवाले तुम (स्वाम्) अपने (योनिम्) कारण को (अपि) ही (इतन) प्राप्त हो, (च) और (नः) हमें (किम् चन) कोई भी [दुःख] (मा आममत्) न पीड़ा देवे ॥२३॥
Connotation: - मनुष्य सब के आदि कारण जगदीश्वर की यथावत् भक्ति करके सब दुःखों से छूटें ॥२३॥ इस मन्त्र का पिछला पाद आ चुका है-अ० ६।५७।३ ॥
Footnote: २३−(समुद्रम्) अ० १।१३।३। सम्+उत्+द्रु गतौ−ड प्रत्ययः, यद्वा, सम्+मुद हर्षे-रक्, यद्वा, सम्+उन्दी क्लेदने-रक्। समुद्रः कस्मात्समुद्द्रवन्त्यस्मादापः, समभिद्रवन्त्येनमापः, सम्मोदन्तेऽस्मिन् भूतानि समुदको भवति, समुनत्तीति वा-निरु० २।१०। समुद्र आदित्यः, समुद्र आत्मा-निरु० १४।१६। समुद्रः समुद्द्रवन्ति भूतानि यस्मात्सः-दयानन्दभाष्ये, यजु० ५।३३। सर्वे देवाः सम्यगुत्कर्षेण द्रवन्ति यत्रेति समुद्रः−महीधरभाष्ये, यजु० ५।३३। भूतानां समुदयकारणं परमात्मानम् (वः) युष्मान् (प्र) अग्रे (हिणोमि) हि गतिवृद्ध्योः-अन्तर्गतणिच्। हाययामि। गमयामि (स्वाम्) आत्मीयाम् (योनिम्) कारणम् (अपि) एव (इतन) लोटि तनादेशः। इत। प्राप्नुत (अरिष्टाः) अहिंसिताः (सर्वहायसः) अ० ८।२।७। सर्व+ओहाङ् गतौ-असुन्, युक्। सर्वगतयः (च) (नः) अस्मान् (किं चन) किमपि दुःखम् (मा आममत्) अ० ६।५७।३। अम पीडने लुङि चङि रूपम्। न पीडयेत् ॥
