Go To Mantra
Viewed 145 times

यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म। आपो॑ मा॒ तस्मा॒त्सर्व॑स्माद्दुरि॒तात्पा॒न्त्वंह॑सः ॥

Mantra Audio
Pad Path

यत् । अर्वाचीनम् । त्रैहायनात् । अनृतम् । किम् । च । ऊदिम । आप: । मा । तस्मात् । सर्वस्मात् । दु:ऽइतात् । पान्तु । अंहस: ॥५.२२॥

Atharvaveda » Kand:10» Sukta:5» Paryayah:0» Mantra:22


PANDIT KSHEMKARANDAS TRIVEDI

विद्वानों के कर्तव्य का उपदेश।

Word-Meaning: - (त्रैहायणात्) तीन उद्योगों [परमेश्वर के कर्म, उपासना और ज्ञान] से [अलग होकर] (यत् किम् च) जो कुछ भी (अर्वाचीनम्) नीच कर्म में होनेवाले (अनृतम्) झूँठ को (ऊदिम) हम बोले हैं, (आपः) विद्वान् लोग (मा) मुझको (तस्मात् सर्वस्मात्) उस सब (दुरितात्) कठिन (अंहसः) अपराध से (पान्तु) बचावें ॥२२॥
Connotation: - मनुष्य विद्वानों के सत्सङ्ग द्वारा परमेश्वर के कर्म, उपासना और ज्ञान की प्राप्ति से मिथ्या कथन आदि दुराचारों को छोड़कर धर्मात्मा होवें ॥२२॥ इस मन्त्र का उत्तर भाग आ चुका है-अ० ७।६४।१ ॥
Footnote: २२−(यत्) (अर्वाचीनम्) अवर+अञ्च गतौ-क्विन्, अर्वादेशः, अर्वाच्-ख प्रत्ययः। अर्वाचि अवरे अधमे कर्मणि भवम् (त्रैहायणात्) हश्च व्रीहिकालयोः। पा० ३।१।१८४। ओहाक् त्यागे, ओहाङ् गतौ च−ण्युट् बाहुलकात्। आतो युक् चिण्कृतोः। पा० ७।३।३३। युक्। तस्य समूहः। पा० ४।२।३७। अण्। त्रयाणां हायनानां गतीनां परमेश्वरस्य कर्मोपासनाज्ञानरूपाणामुद्योगानां समूहस्त्रैहायनं तस्मात् पृथक् भूत्वा (अनृतम्) असत्यम् (किम् च) किंचन (ऊदिम) वयं कथिवन्तः (आपः) म० ६। विद्वांसः (मा) माम् (तस्मात्) (सर्वस्मात्) (दुरितात्) कठिनात् (पान्तु) (अहंसः) अपराधात् ॥