Go To Mantra

आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑। अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्। दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ॥

Mantra Audio
Pad Path

आरे । अभूत् । विषम् । अरौत् । विषे । विषम् । अप्राक् । अपि । अग्नि: । विषम् । अहे: । नि: । अधात् । सोम: । नि: । अनयीत् । दंष्टारम् । अनु । अगात् । विषम् । अहि: । अमृत: ॥४.२६॥

Atharvaveda » Kand:10» Sukta:4» Paryayah:0» Mantra:26


Reads times

PANDIT KSHEMKARANDAS TRIVEDI

सर्प रूप दोषों के नाश का उपदेश।

Word-Meaning: - वह [विष] (आरे) दूर (अभूत्) हुआ है, [क्योंकि] उस [वैद्य] ने (विषम्) विष को (अरौत्) रोक दिया है, और (विषे) विष में (विषम्) विष को (अपि) भी (अप्राक्) मिला दिया है। (सोमः) ऐश्वर्यवान् (अग्निः) ज्ञानी [पुरुष] ने (अहेः) महाहिंसक [साँप के] (विषम्) विष को (निः अधात्) निकाल लिया है और (निः अनयीत्) बाहिर पहुँचा दिया है। (विषम्) विष (दंष्टारम् अनु) काटनेवाले के साथ (अगात्) गया है और (अहिः) साँप (अमृत) मर गया है ॥२६॥
Connotation: - इस मन्त्र का मिलान अ० ७।८८।१। से भी करो। जैसे सद्वैद्य विष ओषधि द्वारा विषरोग को हटाता है, वैसे ही विद्वान् एक इन्द्रिय को वश में करके दूसरे इन्द्रियदोष को मिटावे ॥२६॥ इति द्वितीयोऽनुवाकः ॥
Footnote: २६−(आरे) दूरे-निघ० ३।२६। (अभूत्) (विषम्) (अरौत्) रुधिर् आवरणे-छान्दसो लुङ्। अरुधत्। अरौत्सीत् (विषे) (विषम्) (अप्राक्) पृची सम्पर्के लुङ्। अपर्चीत् (अपि) एव (अग्निः) ज्ञानवान् पुरुषः (विषम्) (अहेः) सर्पस्य (निरधात्) बहिर्धृतवान् (निर् अनयीत्) णीञ् प्रापणे। अनैषीत्। प्रापितवान् (दंष्टारम्) दंशकं सर्पम् (अनु) अनुसृत्य (अगात्) अगच्छत् (विषम्) (अहिः) (अमृत) मृङ् प्राणत्यागे−लुङ्। मृतवान् ॥