कति॑ दे॒वाः क॑त॒मे त आ॑स॒न्य उरो॑ ग्री॒वाश्चि॒क्युः पूरु॑षस्य। कति॒ स्तनौ॒ व्यदधुः॒ कः क॑फो॒डौ कति॑ स्क॒न्धान्कति॑ पृ॒ष्टीर॑चिन्वन् ॥
कति । देवा: । कतमे । ते । आसन् । ये । उर: । ग्रीवा: । चिक्यु: । पुरुषस्य । कति । स्तनौ । वि । अदधु: । क: । कफोडौ । कति । स्कन्धान् । कति । पृष्टी: । अचिन्वन् ॥२.४॥
PANDIT KSHEMKARANDAS TRIVEDI
मनुष्यशरीर की महिमा का उपदेश।