Go To Mantra

को अ॑स्मि॒न्नापो॒ व्यदधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः। ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥

Mantra Audio
Pad Path

क: । अस्मिन् । आप: । वि । अदधात् । विषुऽवृत: । पुरु:ऽवृत: । सिन्धुऽसृत्याय । जाता: । तीव्रा: । अरुणा: । लोहिनी: । ताम्रऽधूम्ना: । ऊर्ध्वा: । अवाची: । पुरुषे । तिरश्ची: ॥२.११॥

Atharvaveda » Kand:10» Sukta:2» Paryayah:0» Mantra:11


Reads 83 times

PANDIT KSHEMKARANDAS TRIVEDI

मनुष्यशरीर की महिमा का उपदेश।

Word-Meaning: - (कः) प्रजापति [परमेश्वर] ने (अस्मिन् पुरुषे) इस मनुष्य में (विषुवृतः) नाना प्रकार घूमनेवाले, (पुरुवृतः) बहुत घूमनेवाले, (सिन्धुसृत्याय) समुद्रसमान बहने के लिये (जाताः) उत्पन्न हुए, (तीव्राः) तीव्र [शीघ्रगामी], (अरुणाः) बेंगनी, (लोहिनीः) लाल वर्णवाले (ताम्रधूम्राः) ताँबे समान धूएँ के वर्णवाले, (ऊर्ध्वाः) ऊपर जानेवाले, (अवाचीः) नीचे की ओर चलनेवाले और (तिरश्चीः) तिरछे बहनेवाले (आपः=अपः) जलों [रुधिरधाराओं] को (वि अदधात्) बनाया है ॥११॥
Connotation: - परमेश्वर ने मनुष्यशरीर में रुधिर के सञ्चार के लिये नाना वर्ण अनेक स्थूल सूक्ष्म नाड़ियाँ बनाई हैं, जिसके कारण से मनुष्य अनेक चेष्टायें करके अपने मनोरथ सिद्ध करता है ॥११॥
Footnote: ११−(कः) म० ५। कर्ता प्रजापतिः (अस्मिन्) (आपः) अपः। जलानि रुधिररूपाणि (व्यदधात्) कृतवान् (विषुवृतः) नानारूपेण वर्तमानाः (पुरुवृतः) बहुवर्तनशीलाः (सिन्धुसृत्याय) सृ गतौ-क्यप्, तुक्। समुद्रवद् गमनाय (जाताः) उत्पन्नाः (तीव्राः) शीघ्रगतीः (अरुणाः) कृष्णमिश्रितरक्तवर्णाः (लोहिनीः) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। लोहित−ङीप्, तस्य नश्च। रक्तवर्णाः (ताम्रधूम्राः) ताम्रधूम्रवर्णाः (ऊर्ध्वाः) उपरिगतीः (अवाचीः) अधोगतिशीलाः (पुरुषे) मनुष्ये (तिरश्चीः) तिर्यग्गतियुक्ताः ॥