Go To Mantra
Viewed 124 times

व॒शां दे॒वा उप॑ जीवन्ति व॒शां म॑नु॒ष्या उ॒त। व॒शेदं सर्व॑मभव॒द्याव॒त्सूर्यो॑ वि॒पश्य॑ति ॥

Mantra Audio
Pad Path

वशाम् । देवा: । उप । जीवन्ति । वशाम् । मनुष्या: । उत । वशा । इदम्। सर्वम् । अभवत् । यावत् । सूर्य: । विऽपश्यति ॥१०.३४॥

Atharvaveda » Kand:10» Sukta:10» Paryayah:0» Mantra:34


PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर शक्ति की महिमा का उपदेश।

Word-Meaning: - (देवाः) देव [विजयी जन] (वशाम्) वशा [कामनायोग्य परमेश्वरशक्ति] के, (उत) और (मनुष्याः) मनुष्य [मननशील लोग] (वशाम्) वशा के (उप जीवन्ति) आश्रय से जीते हैं। (वशा) वशा (इदम् सर्वम्) इस सब में (अभवत्) व्यापक हुई है, (यावत्) जितना कुछ (सूर्यः) सूर्य [सर्वप्रेरक परमात्मा] (विपश्यति) विविध प्रकार देखता है ॥३४॥
Connotation: - परमात्मा की समस्त सृष्टि में उसकी शक्ति से सब पुरुषार्थी और विवेकी लोग बल प्राप्त करके आनन्दित रहते हैं ॥३४॥ इति पञ्चमोऽनुवाकः ॥ इति त्रयोविंशः प्रपाठकः ॥ इति दशमं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाड़ाधिष्ठितबड़ोदेपुरीगतश्रावणमास- परीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये दशमं काण्डं समाप्तम् ॥
Footnote: ३४−(वशाम्) मन्त्र २। कमनीयां परमेश्वरशक्तिम् (देवाः) विजयिनो जनाः (उप जीवन्ति) उपेत्य प्राणान् धारयन्ति (वशाम्) (मनुष्याः) मननशीलाः (उत) अपि (वशा) (इदम्) दृश्यमानम् (सर्वम्) जगत् (अभवत्) व्याप्नोत् (यावत्) यत्प्रमाणम् (सूर्यः) सर्वप्रेरकः परमेश्वरः (वि पश्यति) विविधमवलोकते ॥