यस्त्वो॒वाच॒ परे॒हीति॑ प्रति॒कूल॑मुदा॒य्यम्। तं कृ॑त्येऽभि॒निव॑र्तस्व॒ मास्मानि॑च्छो अना॒गसः॑ ॥
Pad Path
य: । त्वा । उवाच । परा । इहि । इति । प्रतिऽकूलम् । उत्ऽआय्यम् । तम् । कृत्ये । अभिऽनिवर्तस्व । मा । अस्मान् । इच्छ: । अनागस: ॥१.७॥
Atharvaveda » Kand:10» Sukta:1» Paryayah:0» Mantra:7
Reads 61 times
PANDIT KSHEMKARANDAS TRIVEDI
राजा के कर्तव्य दण्ड का उपदेश।
Word-Meaning: - (यः) जिस [दुष्ट] ने (त्वा) तुझ से (उवाच) कहा−“(उदाय्यम्) उदय को प्राप्त हुए (प्रतिकूलम्) विरुद्ध पक्षवाले शत्रु को (परा इहि इति) जाकर प्राप्त हो। (कृत्ये) हे हिंसा क्रिया ! (तम्) उसकी ओर (अभिनिवर्तस्व) लौटकर जा, (अस्मान्) हम (अनागसः) निर्दोषियों को (मा इच्छः) मत चाह ॥७॥
Connotation: - जो दुष्ट जन धर्मात्माओं को शत्रु जान कर सतावें, उन्हें पूरा-पूरा दण्ड मिले ॥७॥
Footnote: ७−(यः) शत्रुः (त्वा) त्वाम् (उवाच) कथितवान् (परा) दूरे (इहि) प्राप्नुहि (इति) वाक्यसमाप्तौ (प्रतिकूलम्) विरुद्धपक्षवन्तं शत्रुम् (उदाय्यम्) उत्+आय-यत्। उदयं गच्छन्तम् (तम्) शत्रुम् (कृत्ये) म० ४। हे हिंसाक्रिये (अभिनिवर्तस्व) अभितो निवर्त्य प्राप्नुहि (मा इच्छः) मा वाञ्छ (अनागसः) निर्दोषान् ॥
