Go To Mantra

अ॒स्य दे॑वाः प्र॒दिशि॒ ज्योति॑रस्तु॒ सूर्यो॑ अ॒ग्निरु॒त वा॒ हिर॑ण्यम्। स॒पत्ना॑ अ॒स्मदध॑रे भवन्तूत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥

Mantra Audio
Pad Path

अस्य । देवा: । प्रऽदिशि । ज्योति: । अस्तु । सूर्य: । अग्नि: । उत । वा । हिरण्यम् ।सऽपत्ना: । अस्मत् । अधरे । भवन्तु । उत्‍ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥

Atharvaveda » Kand:1» Sukta:9» Paryayah:0» Mantra:2


Reads 87 times

PANDIT KSHEMKARANDAS TRIVEDI

सब सम्पत्तियों के लिये प्रयत्न का उपदेश।

Word-Meaning: - (देवाः) हे व्यवहार जाननेहारे महात्माओ ! (अस्य) इसके [मेरे] (प्रदिशि) शासन में (ज्योतिः) तेज, [अर्थात्] (सूर्यः) सूर्य, (अग्निः) अग्नि, (उत वा) और भी (हिरण्यम्) सुवर्ण (अस्तु) होवे। (सपत्नाः) सब वैरी (अस्मत्) हमसे (अधरे) नीचे (भवन्तु) रहें। (उत्तमम्) अति ऊँचे (नाकम्) सुख में (एनम्) इसको [मुझको] (अधि) ऊपर (रोहय=०-यत) तुम चढ़ाओ ॥२॥
Connotation: - प्रकाशवाले, सूर्य अग्नि की और सुवर्ण आदि की विद्याएँ, अथवा सूर्य, अग्नि और सुवर्ण के समान प्रकाशवाले लोग, पुरुषार्थी मनुष्य के अधिकार में रहें और वह यथायोग्य शासन करके सर्वोत्तम सुख भोगे ॥२॥
Footnote: २−अस्य। उपासकस्य। देवाः। म० १। हे प्रकाशमया व्यवहारिणो वा। प्रदिशि। सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। प्रपूर्वात् दिश दाने, आज्ञापने-क्विप्। प्रदेशने, शासने, आज्ञायाम्। ज्योतिः। म० १। तेजः, प्रकाशः। सूर्यः। १।३।५। सरणशीलः, प्रेरकः। ग्रहविशेषः। अग्निः। म० १। दावानलजाठरवैद्युतादिरूपः पावकः। हिरण्यम्। हर्यतिः कान्तिकर्मा−निघ० २।६। हर्यतेः कन्यन् हिर् च। उ० ४।४४। इति हर्य्य गतिकान्त्योः−कन्यन्, हिरादेशः। हर्यते काम्यते तत्। यद्वा, हृञ् हरणे-कन्यन् हिर् च। ह्रियते जनाज्जनं व्यवहारार्थम्, अथवा द्रव्यस्वभावत्वात् नैकत्रास्य स्थितिः। हिरण्यनामसु−निघ० १।२। हर्यतेः प्रेप्साकर्मणः−निरु० २।१०। सुवर्णम्। तेजः। स-पत्नाः। सह+पत् पतने ऐश्ये च-न प्रत्ययः, सहस्य सः। सह पतन्ति यतन्ते एकार्थे, यद्वा, सह पत्यन्ते ईश्वरा भवन्ति। सह पतित्ववन्तः। शत्रवः। अधरे। न+धृञ्-अच्, नञ्समासः, न ध्रियतेऽसौ। नीचाः, हीनाः, अपकृष्टाः। उत्-तमम्। उत्+तमप्, अतिशयेन उत्कृष्टम्। यद्वा, उत्+तमु इच्छायाम्−अच्। भद्रम्, उत्कृष्टम्। नाकम्। कं सुखम् अकं दुःखम्, तन्नास्त्यत्रेति नाकः। नभ्राण्नपान्नवेदानासत्या०। पा० ६।३।७५। इति नञः प्रकृतिभावः। अथवा पिनाकादयश्च। उ० ४।१५। इति णी प्रापणे−आक-प्रत्ययः, टिलोपः। नाक आदित्यो भवति नेता भासां ज्योतिषां प्रणयोऽथ द्यौः कमिति सुखनाम तत्प्रतिषिद्धं प्रतिषिध्यते−निरु० २।१४। स्वर्गम्। सुखम्। आकाशम्। आदित्यलोकम्। अधि। उपरि। रोहय। रुह जन्मनि, प्रादुर्भावे-णिच्-लोट्। एकवचनं बहुवचने। उन्नयत यूयम्। इमम्। उपासकम् ॥