Go To Mantra

अ॒यं स्तु॑वा॒न आग॑मदि॒मं स्म॒ प्रति॑ हर्यत। बृह॑स्पते॒ वशे॑ ल॒ब्ध्वाग्नी॑षोमा॒ वि वि॑ध्यतम् ॥

Mantra Audio
Pad Path

अयम् । स्तुवान: । आ । अगमत् । इमम् । स्म । प्रति । हर्यत । बृहस्पते । वशे । लब्ध्वा । अग्नीषोमा । वि । विध्यतम् । ॥

Atharvaveda » Kand:1» Sukta:8» Paryayah:0» Mantra:2


Reads 89 times

PANDIT KSHEMKARANDAS TRIVEDI

सेनापति के लक्षण।

Word-Meaning: - (अयम्) यह [शत्रु] (स्तुवानः) स्तुति करता हुआ (आ-अगमत्) आया है, (इमम्) इसका (स्म) अवश्य (प्रति हर्यत) तुम सब स्वागत करो। (बृहस्पते) हे बड़े बड़ों के रक्षक राजन् ! [दूसरे वैरी को] (वशे) वश में (लब्ध्वा) लाकर [वर्त्तमान हो], (अग्नीषोमा=०-मौ) हे अग्नि और चन्द्रमा ! तुम दोनों [अन्य वैरियों को] (वि) अनेक भाँति से (विध्यतम्) ताड़ो ॥२॥
Connotation: - जो शत्रु राजा का प्रभुत्व मानकर शरणागत हो, राजा और कर्मचारी उसका स्वागत करें। प्रतापी राजा दूसरे वैरी को शम दम आदि से अपने आधीन रक्खे और अन्य वैरियों को (अग्निषोमा) दण्ड देने में अग्नि सा प्रचण्ड और न्याय करने में (सोम) चन्द्रमा सा शान्तस्वभाव रहे ॥२॥
Footnote: २−अयम्। शत्रुः। स्तुवानः। ष्टुञ् स्तुतौ-शानच्। युष्मान् स्तुवन्। आ+अगमत्। गम्लृ गतौ-लुङ्। आगतवान्। इमम्। शत्रुम्। स्म। अवश्यम्, प्रीत्या। प्रति+हर्यत। हर्य गतिकान्त्योः−लोट्। यूयं प्रतिकामध्वम्, स्वकीयत्वेन परिगृह्णीत। बृहस्पते। तद्बृहतोः करपत्योश्चोरदेवतयोः सुट् तलोपश्च। वार्त्तिकम्, पा० ६।१।१५७। इति बृहत्+पतिः, सुट्, आगमः, तकारलोपश्च। हे बृहतां महतां विदुषां पालयितः, विद्वन् राजन् ! वशे। वशिरण्योरुपसंख्यानम्। वा०। पा० ३।३।५८। इति वश स्पृहायां−अप्। अधीनत्वे, आयत्ततायाम्। लब्ध्वा। लभ प्राप्तौ-क्त्वा। आनीय। प्राप्य [अन्य शत्रुं तिष्ठ, इति शेषः]। अग्नीषोमा। अग्निश्च सोमश्चेति द्वन्द्वे। ईदग्नेः सोमवरुणयोः। पा० ६।३।२७। इति ईत्त्वम्। अग्नेः स्तुत्स्तोमसोमाः। पा० ८।३।८२। इति षत्वम्। सुपां सुलुक्०। पा० ७।१।३९। इति पूर्वसवर्णदीर्घः। अर्त्तिस्तुसुहुसृधृक्षि०। उ० १।१४०। इति षु ऐश्वर्यप्रसवयोः−मन्। सवति ऐश्वर्यहेतुर्भवतीति, यद्वा सवति सौति अमृतमुत्पादयतीति सोमः। वायुः। चन्द्रः। बलवर्धकौषधविशेषः। अमृतम्। अग्निः। अग्निवत् तेजः। वायुः, वायुवद् वेगः, अथवा चन्द्रवत् प्रजायै शान्तिप्रदगुणः। अनेन सेनापतिगुणद्वयवर्णनम्। वि। विविधम्। विध्यतम्। व्यध ताडने-लोट्। युवां ताडयतम् अन्यं पापात्मानम् ॥