Go To Mantra

समा॑नां मा॒सामृ॒तुभि॑ष्ट्वा व॒यं सं॑वत्स॒रस्य॒ पय॑सा पिपर्मि। इ॑न्द्रा॒ग्नी विश्वे॑ दे॒वास्ते ऽनु॑ मन्यन्ता॒महृ॑णीयमानाः ॥

Mantra Audio
Pad Path

समानाम् । मासाम् । ऋतुऽभि: । त्वा । वयम् । सम्ऽवत्सरस्य । पयसा । पिपर्मि ।इन्द्रग्नी इति । विश्वे । देवा: । ते । अनु । मन्यन्ताम् । अहृणीयमाना: ॥

Atharvaveda » Kand:1» Sukta:35» Paryayah:0» Mantra:4


Reads 104 times

PANDIT KSHEMKARANDAS TRIVEDI

सुवर्ण आदि धन प्राप्ति के लिये उपदेश।

Word-Meaning: - (वयम्) हम लोग (त्वा) तुझको [आत्मा को] (समानाम्) अनुकूल (मासाम्) महीनों की (ऋतुभिः) ऋतुओं से और (संवत्सरस्य) वर्ष के (पयसा) दुग्ध वा रस से (पिपर्मि=पिपर्मः) पूर्ण करते हैं। (इन्द्राग्नी) वायु और अग्नि [वायु और अग्नि के समान गुणवाले] (ते) वह (विश्वे देवाः) सब दिव्य गुणयुक्त पुरुष (अहृणीयमानाः) संकोच न करते हुए (अनु मन्यन्ताम्) [हम पर] अनुकूल रहें ॥४॥
Connotation: - जो मनुष्य महीनों, ऋतुओं और वर्षों का अनुकूल विभाग करते हैं, वह वर्ष भर की उपज, अन्न, दूध, फल, पुष्प आदि से पुष्ट रहते हैं और वायु के समान वेगवाले और अग्नि के समान तेजस्वी विद्वान् महात्मा उस पुरुषार्थी मनुष्य के सदा शुभचिन्तक होते हैं ॥३॥
Footnote: ४−उमानाम्। षम वैक्लव्ये पचाद्यच्। अविषमानाम्। पूर्णानाम्। साधूनाम्, अनुकूलानाम्। मासाम्। सर्वधातुभ्योऽसुन्। उ० ४।१८९। इति माङ् माने−असुन्। मासानाम्। ऋतुभिः। अर्त्तेश्च तुः। उ० १।७२। इति ऋ गतौ−तु, स च कित्। वसन्तादिकालविशेषैः। त्वा। त्वाम् पुरुषम्। सम्-वत्सरस्य। संपूर्वाच्चित्। उ० ३।७२। इति सम्+वस निवासे−सरन्, सस्य तकारः। संवसन्ति ऋतवो यत्र। वर्षस्य, द्वादशमासात्मकस्य कालस्य। पयसा। पय गतौ वा पीङ् पाने−असुन्। दुग्धेन सारेण वा, धान्यफलादिना, इत्यर्थः। पिपर्मि। पॄ पालनपूरणयोः, जुहोत्यादिः। एकवचनं बहुवचने। वयं पिपर्मः पालयामः, पूरयामः। इन्द्राग्नी। वाय्वग्नी। यथा श्रीमद्दयानन्दभाष्ये, य० २१।२०। इन्द्राग्नी=इन्द्रश्चाग्निश्च तौ वाय्वग्नी। तद्वद् गुणवन्तः। विश्वे। सर्वे। देवाः। दिव्यगुणाः पुरुषाः। अनु-मन्यन्ताम्। अनु+मन बोधे−लोट्। अनुजानन्तु, स्वीकुर्वन्तु, अनुकूलं कुर्वन्तु। अहृणीयमानाः। कण्ड्वादिभ्यो यक्। पा० ३।१।२७। इति हृणीङ् रोषणे लज्जायां वैमनस्ये च−यक्। ङित्त्वाद् आत्मनेपदम्। ततः शानच्। हृणीयते=क्रुध्यति, निघ० २।१२। अक्रुध्यन्तः, असङ्कुचन्तः ॥ इति षष्ठोऽनुवाकः ॥ इति प्रथमं काण्डम् ॥ इति श्रीमद्राजाधिराजप्रथितमहागुणमहिमश्रीसयाजीरावगायकवाडाधिष्ठितबडोदेपुरीगतश्रावणमास-दक्षिणापरीक्षायाम् ऋक्सामाथर्ववेदभाष्येषु लब्धदक्षिणेन श्रीपण्डितक्षेमकरणदासत्रिवेदिना कृते अथर्ववेदभाष्ये प्रथमं काण्डं समाप्तम् ॥ इदं काण्डं प्रयागनगरे श्रावणमासे रक्षाबन्धनतिथौ १९६९ तमे विक्रमीये संवत्सरे धीरवीरचिरप्रतापिमहायशस्विश्रीराजराजेश्वरजार्जपञ्चममहोदयस्य सुसाम्राज्ये सुसमाप्तिमगात् ॥