यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना॑नाम्। या अ॒ग्निं गर्भं॑ दधि॒रे सु॒वर्णा॒स्ता न॒ आपः॒ शं स्यो॒ना भ॑वन्तु ॥
यासाम् । राजा । वरुण: । याति । मध्ये । सत्यानृते इति सत्यऽअनृते । अवऽपश्यन् । जनानाम् । या: । अग्निम् । गर्भम् । दधिरे । सुऽवर्णा: । ता: । न: । आप: । शम् । स्योना: । भवन्तु ॥
PANDIT KSHEMKARANDAS TRIVEDI
सूक्ष्म तन्मात्राओं का विचार।
