Viewed 149 times
यथा॒ द्यां च॑ पृथि॒वीं चा॒न्तस्तिष्ठ॑ति॒ तेज॑नम्। ए॒वा रोगं॑ चास्रा॒वं चा॒न्तस्ति॑ष्ठतु॒ मुञ्ज॒ इत् ॥
Pad Path
यथा । द्याम् । च । पृथिवीम् । च । अन्तः । तिष्ठति । तेजनम् । एव । रोगम् । च । आऽस्रावम् । च । अन्तः । तिष्ठतु । मुञ्ज: । इत् ॥
Atharvaveda » Kand:1» Sukta:2» Paryayah:0» Mantra:4
PANDIT KSHEMKARANDAS TRIVEDI
बुद्धि की वृद्धि के लिये उपदेश।
Word-Meaning: - (यथा) जैसे (तेजनम्) प्रकाश (द्यां च) सूर्यलोक (च) और (पृथिवीम्) पृथिवीलोक के (अन्तः) बीच में (तिष्ठति) रहता है, (एव) वैसे ही (मुञ्जः) शोधनेवाला परमेश्वर [वा औषध] (इत्) भी (रोगं च) शरीरभङ्ग (च) और (आस्रावम्) रुधिर के बहाव वा घाव के (अन्तः) बीच में (तिष्ठतु) स्थित होवे ॥४॥
Connotation: - जो मनुष्य अपने बाहिरी और भीतरी क्लेशों में (मुञ्ज) हृदयसंशोधक परमेश्वर का स्मरण रखते हैं, वे दुःखों से पार होकर तेजस्वी होते हैं। अथवा जैसे सद्वैद्य (मुञ्ज) संशोधक औषधि से बाहिरी और भीतरी रोग का प्रतीकार करता है, वैसे ही आचार्य विद्याप्रकाश से ब्रह्मचारी के अज्ञान का नाश करता है ॥४॥ सायणभाष्य में (तेजनम्) नपुंसकलिङ्ग को [तेजनः] पुंलिङ्ग मानकर [वेणुः] अर्थात् बाँस अर्थ किया है वह असंगत है ॥
Footnote: ४−यथा। येन प्रकारेण। द्याम्। गमेर्डोः। उ० २।६७। इति बाहुलकात् द्युत दीप्तौ−डो प्रत्ययः। सूर्यलोकम्। पृथिवीम्। मं० २। प्रख्यातां विस्तीर्णां वा भूमिम्। अन्तः। अम गतौ-अरन्, तुडागमः। अन्तरान्तरेण युक्ते। पा० २।३।४। इति छन्दसि मध्यशब्दस्य पर्यायवाचकत्वात् अन्तर् इति शब्देन सह द्वितीया। द्वयोर्मध्ये। तिष्ठति। वर्तते। तेजनम्। नपुंसकम्। तिज तीक्ष्णीकरणे-ल्युट्। तेजः प्रकाशः। एव। निपातस्य च। पा० ६।३।१३६। इति छन्दसि दीर्घम्। एवम्, तथा। रोगम्। पदरुजविशस्पृशो घञ्। पा० ३।३।१६। इति रुज भङ्गे हिंसे च-घञ्। रुजति शरीरम्। शरीरभङ्गम्। आस्रावम्। श्याऽऽद्व्यधास्रु०। पा० ३।१।१४१। इति आङ्+स्रु स्रवणे-ण प्रत्ययः। अचो ञ्णिति। पा० ७।२।११५। इति वृद्धिः। आस्रवम्, रुधिरादिस्रवणम्। आघातम्। मुञ्जः। मुञ्ज्यते मृज्यते अनेन। मुजि मार्जने शोधने-अच्। परमेश्वरः संशोधकः पदार्थो वा। इत्। एव अपि ॥
