Go To Mantra

इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑। अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः ॥

Mantra Audio
Pad Path

इदम् । विऽस्कन्धम् । सहते । इदम् । बाधते । अत्त्रिण: । अनेन । विश्वा । ससहे । या । जातानि । पिशाच्या: ॥

Atharvaveda » Kand:1» Sukta:16» Paryayah:0» Mantra:3


Reads 125 times

PANDIT KSHEMKARANDAS TRIVEDI

विघ्न के नाश का उपदेश।

Word-Meaning: - (इदम्) यह [सामर्थ्य] (विष्कन्धम्) विघ्न को (सहते) जीतता है और (इदम्) यह (अत्त्त्रिणः) उदरपोषक खाउओं को (बाधते) हटाता है। (अनेन) इससे (विश्वा=विश्वानि) उन सब दुःखों को (ससहे) मैं जीतता हूँ (या=यानि) जो (पिशाच्याः) मांस खानेहारी (कुवासना) से (जातानि) उत्पन्न हैं ॥३॥
Connotation: - दूरदर्शी पुरुषार्थी मनुष्य उत्तम ज्ञान के सामर्थ्य से अपने क्लेशों के कारण को जानते और कुवासनाओं के कुसंस्कारों को अपने हृदय में नहीं जमने देते ॥३॥ भगवान् पतञ्जलि जी ने कहा है−योगदर्शन पाद २ सूत्र १६ ॥हेयं दुःखमनागतम् ॥न आया हुआ [परन्तु आनेवाला] दुःख हटाना चाहिये ॥
Footnote: ३−इदम्। सीसम्। विष्कन्धम्। वि विकारे+स्कन्दिर् गतिशोषणयोः−अच्। दस्य धः। वेः स्कन्देरनिष्ठायाम्। प० ८।३।७३। इति षत्त्वम् यद्वा, विष्क हिंसायाम्−क+धाञ्-ड। हिंसां दधातीति। विशेषेण शोषकम्। विघ्नम् सहते। षह अभिभवे। अभिभवति जयति। बाधते। बाध प्रतिबन्धे प्रतिरोधे−लट्। प्रतिबध्नाति, निवारयति। अत्त्त्रिणः। म० १। अदनस्वभावान् राक्षसान्। अनेन। सीसेन। ससहे। बहुलं छन्दसि। पा० २।४।७६। इति षह अभिभवे लटि शपः श्लुः। अहम् अभिभवामि। जातानि। जनी प्रादुर्भावे−कर्त्तरि क्त। उत्पन्नानि। अपत्यरूपाणि दुष्टाचरणानि। पिशाच्याः। कर्मण्यण्। पा० ३।२।१। इति पिशित+अश भक्षणे−अण्। पृषोदरादीनि यथोपदिष्टम्। पा० ६।३।१०९। इति रूपसिद्धिः। पिशितं मांसमश्नातीति पिशाचः। अथवा। इगपुधज्ञाप्रीकिरः कः। पा० ३।१।१३५। इति पिश अवयवे-क। इति पिशः पिशितम्। पुनः। पिश+आङ्+चम भक्षणे−ड प्रत्ययः। पिशं पिशितं मांसम् आचमति सम्यग् भक्षयतीति पिशाचः। प्राणिनां मांसभक्षी पिशिताशी। ततो ङीप्। मांसभक्षिण्याः। राक्षसीरूपायाः कुवासनायाः ॥