Go To Mantra

अङ्गेअ॑ङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम। अ॒ङ्कान्त्स॑म॒ङ्कान्ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त्पर्वा॑स्या॒ ग्रभी॑ता ॥

Mantra Audio
Pad Path

अङ्गेऽअङ्गे । शोचिषा । शिश्रियाणम् । नमस्यन्त: । त्वा । हविषा । विधेम । अङ्कान् । सम्ऽअङ्कान् । हविषा । विधेम । य: । अग्रभीत् । पर्व । अस्य । ग्रभीता ॥

Atharvaveda » Kand:1» Sukta:12» Paryayah:0» Mantra:2


Reads 205 times

PANDIT KSHEMKARANDAS TRIVEDI

ईश्वर के गुण।

Word-Meaning: - (शोचिषा) अपने प्रकाश से (अङ्गे अङ्गे) अङ्ग-अङ्ग में (शिश्रियाणम्) ठहरे हुए (त्वा) तुझको (नमस्यन्तः) नमस्कार करते हुए हम (हविषा) भक्ति से (विधेम) सेवा करते रहें। [उसके] (अङ्कान्) पृथक्-पृथक् चिह्नों को और (समङ्कान्) मिले हुए चिह्नों को (हविषा) भक्ति से (विधेम) हम आराधें, (यः) जिस (ग्रभीता) ग्रहण करनेहारे परमेश्वर ने (अस्य) इस [ सेवक वा जगत्] के (पर्व) अवयव-अवयव को (अग्रभीत्) ग्रहण किया है ॥२॥
Connotation: - वह (वृषा-म० १) परमात्मा हमारे और सब व्यष्टि और समष्टिरूप जगत् के रोम-रोम में परिपूर्ण है, उस प्रकाशस्वरूप के गुणों को यथावत् जानकर हम लोग उस पर पूरी श्रद्धा से आत्मसमर्पण करें। वह हमारे शरीर और आत्मा को बल देकर सहाय और आनन्द देता है ॥२॥
Footnote: २−अङ्गे-अङ्गे। अङ्ग चिह्नकरणे-अच्। नित्यवीप्सयोः। पा० ८।१।४। इति द्विर्वचनम्। अङ्ग इत्यादौ च। पा० ६।१।११९। इति प्रकृतिभावः। सर्वेष्वङ्गेषु अवयवेषु। शोचिषा। अर्चिशुचिहुसृपि०। उ० २।१०८। इति शुच शौचे=शुद्धौ-इसि। दीप्त्या, प्रकाशेन। शिश्रियाणम्। लिटः कानज्वा। पा० ३।२।१०६। इति। श्रिञ् सेवायाम्-कानच्। अचि श्नुधातु०। पा० ६।४।७७। इति इयङादेशः। चितः। पा० ६।१।१६३। इति अन्तोदात्तत्वम्। आश्रितम्, परिपूर्णम्। नमस्यन्तः। नमोवरिवश्चित्रङः क्यच्। पा० ३।१।१९। इति नमस्-क्यच् पूजायाम्−लटः शतृ। पूजयन्तः। त्वा। त्वां वृषाणम्। हविषा। १।४।३। दानेन, आत्मसमर्पणेन भक्त्या। विधेम। विध विधाने, तुदादिः, विधिलिङ्। परिचरणकर्मा−निघ० ५।५। परिचरेम, सेवेमहि। अङ्कान्। हलश्च। पा० ३।३।१२१। इति अञ्चु गतिपूजनयोः−कर्तरि घञ्। चजोः कु घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्। अञ्चनशीलान् गमनशीलान्, व्यस्तिरूपेण पृथक् पृथग् व्याप्तान् गुणान्। सम्-अङ्कान्। सम्भूय गमनशीलान्। समस्तिरूपेण संगतान् गुणान्, अग्रभीत्। ग्रह उपादाने−लुङ्, हस्य भकारः। अग्रहीत्। पर्व। स्नामदिपद्यर्त्तिपॄशकिभ्यो वनिप्। उ० ४।११३। इति पॄ पालने, पूर्तौ−वनिप्। प्रत्येकावयवम्। ग्रभीता। ग्रह उपादाने-तृच्। हस्य भः। ग्रहीता, ग्राहकः, धारकः ॥