Go To Mantra

वि ते॑ भिनद्मि॒ मेह॑नं॒ वि योनिं॒ वि ग॒वीनि॑के। वि मा॒तरं॑ च पु॒त्रं च॒ वि कु॑मा॒रं ज॒रायु॒णाव॑ ज॒रायु॑ पद्यताम् ॥

Mantra Audio
Pad Path

वि । ते । भिनद्मि । मेहनम् । वि । योनिम् । वि । गवीनिके इति ।वि । मातरम् । च । पुत्रम् । च । वि । कुमारम् । जरायुणा । अव । जरायु । पद्यताम् ॥

Atharvaveda » Kand:1» Sukta:11» Paryayah:0» Mantra:5


Reads 193 times

PANDIT KSHEMKARANDAS TRIVEDI

सृष्टिविद्या का वर्णन।

Word-Meaning: - (ते) तेरे (मेहनम्) गर्भ मार्ग को (वि) विशेष करके और (योनिम्) गर्भाशय को (वि) विशेष करके और (गवीनिके) पार्श्वस्थ दोनों नाड़ियों को (वि) विशेष करके (भिनद्मि) [मल से] अलग करती हूँ (च) और (मातरम्) माता को (च) और (कुमारम्) क्रीड़ा करनेवाले (पुत्रम्) पुत्र को (जरायुणा) जरायु से (वि वि) अलग-अलग [करती हूँ], (जरायु) जरायु (अव) नीचे (पद्यताम्) गिर जावे ॥५॥
Connotation: - इस मन्त्र में धात्रेयी [धायी] अपने कर्म का वर्णन करके प्रसूता को उत्साहित करती है, अर्थात् धायी बड़ी सावधानी से प्रसवसमय प्रसूता के अङ्गों को आवश्यकतानुसार कोमल मर्दन करे और उत्पन्न होने पर माता और सन्तान की यथायोग्य शुद्धि करके सुधि रक्खे और ऐसा यत्न करे कि जरायु अपने आप गिर जावे, जिससे दोनों माता और सन्तान सुखी रहें ॥५॥
Footnote: ५−वि+भिनद्मि। भिदिर् विशेषकरणे, द्विधाकरणे च। मलात् पृथक् करोमि, विश्लेषयामि। मेहनम्। १।३।७। गर्भमार्गम्। वि=विभिनद्मि। एवं (वि) इति शब्देन सह सर्वत्र योजनीयम्। योनिम्। म० ३। गर्भाशयम्। गवीनिके। १।३।६। पार्श्ववर्तिन्यौ नाड्यौ। मातरम्। १।२।१। मान्यते पूज्यते सा माता। जननीम्। पुत्रम्। पुवो ह्रस्वश्च। उ० ४।१६५। इति षूङ् शोधे-क्त्र। ह्रस्वश्च धातोः। पुनाति पित्रादीनिति पुत्रः। पुत्रः पुरुत्रायते निपरणाद्वा पुं नरकं ततस्त्रायत इति वा-इति यास्कः, निरु० २।११। पुरु+त्रैङ् रक्षणे-ड। यद्वा, पुत्+त्रैङ्-ड। यथा च रामायणे। २।१०७।१२।पुन्नाम्नो नरकाद् यस्मात् पितरं त्रायते सुतः। तस्मात् पुत्र इति प्रोक्तः पितॄन् यः पाति सर्वतः ॥ अपत्यम्। सन्तानम्। कुमारम्। कुमार क्रीडने-अच्। क्रीडाशीलम्। शिशुम्। जरायुणा। म० ४। गर्भवेष्टनचर्मणा। अन्यत् गतम्−म० ४।