वांछित मन्त्र चुनें

मैतं पन्था॒मनु॑ गा भी॒म ए॒ष येन॒ पूर्वं॒ नेयथ॒ तं ब्र॑वीमि। तम॑ ए॒तत्पु॑रुष॒ मा प्र प॑त्था भ॒यं प॒रस्ता॒दभ॑यं ते अ॒र्वाक् ॥

मन्त्र उच्चारण
पद पाठ

मा । एतम् । पन्थाम् । अनु । गा: । भीम: । एष: । येन । पूर्वम् । न । इयथ । तम् । ब्रवीमि । तम: । एतत् । पुरुष । मा । प्र । पत्था: । भयम् । परस्तात् । अभयम् । ते । अर्वाक् ॥१.१०॥

अथर्ववेद » काण्ड:8» सूक्त:1» पर्यायः:0» मन्त्र:10


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

मनुष्य कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (एतम्) इस (पन्थाम्) पथ [अधर्मपथ] पर (मा अनु गाः) मत कभी चल, (एषः) यह (भीमः) भयानक है, (येन) जिस [मार्ग] से (पूर्वम्) पहिले (न इयथ) तू नहीं गया है, (तम्) उसी [मार्ग] को (ब्रवीमि) मैं कहता हूँ। (पुरुष) हे पुरुष ! (एतत्) इस (तमः) अन्धकार में (प्र) आगे (मा पत्थाः) मत पद रख (परस्तात्) दूरस्थान [कुपथ] में (भयम्) भय है, (अर्वाक्) इस ओर [धर्मपथ में] (ते) तेरे लिये (अभयम्) अभय है ॥१०॥
भावार्थभाषाः - विद्वानों के निश्चय से मनुष्यों को अधर्म छोड़कर धर्म पर चलना आनन्ददायक है ॥१०॥
टिप्पणी: १०−(एतम्) प्रसिद्धम् (पन्थाम्) पन्थानम्। कुमार्गमित्यर्थः (अनु) निरन्तरम् (मा गाः) मा याहि (भीमः) भयानकः (एषः) कुमार्गः (येन) (पूर्वम्) अग्रे (न) निषेधे (इयथ) इण् गतौ-लिट्, छान्दसं रूपम्। इयेथ। गतवानसि (तम्) कुमार्गम् (ब्रवीमि) कथयामि (तमः) अन्धकारम् (एतत्) (पुरुष) (प्र) अग्रे (मा पत्थाः)-म० ४। पदनं गमनं मा कार्षीः (भयम्) (परस्तात्) परस्मिन् दूरदेशे, कुमार्ग इत्यर्थः (अभयम्) कुशलम् (ते) तुभ्यम् (अर्वाक्) अभिमुखम्। समीपम् ॥