वांछित मन्त्र चुनें

यथा॒ शेपो॑ अ॒पाया॑तै स्त्री॒षु चास॒दना॑वयाः। अ॑व॒स्थस्य॑ क्न॒दीव॑तः शाङ्कु॒रस्य॑ नितो॒दिनः॑। यदात॑त॒मव॒ तत्त॑नु॒ यदुत्त॑तं॒ नि तत्त॑नु ॥

मन्त्र उच्चारण
पद पाठ

यथा । शेप: । अपऽअयातै । स्त्रीषु । च । असत् । अनावया: । अवस्थस्य । क्नदिऽवत: । शाङ्कुरस्य । निऽतोदिन: । यत् । आऽततम् । अव । तत् । तनु । यत् । उत्ऽततम् । नि । तत् । तनु ॥९५.३॥

अथर्ववेद » काण्ड:7» सूक्त:90» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (अवस्थस्य) हिंसा में रहनेवाले, (क्नदीवतः) गाली बकने वाले, (शाङ्कुरस्य) शङ्का करनेवाले, (नितोदिनः) नित्य सतानेवाले पुरुष का (शेपः) पराक्रम (यथा) जिस प्रकार (अपायातै) मिट जावे (च) और (स्त्रीषु) स्तुतियोग्य स्त्रियों [वा उनके समान सज्जन प्रजाओं] में (अनावयाः) न पहुँचनेवाला (असत्) होवे, [उसी प्रकार हे राजन् !] (यत्) जो कुछ [उसका बल] (आततम्) फैला हुआ है, (तत्) उसे (अव तनु) संकुचित करदे और (यत्) जो कुछ [सामर्थ्य] (उत्तमम्) ऊँचा फैला है, (तत्) उसे (नि तनु) नीचा कर दे ॥३॥
भावार्थभाषाः - राजा सज्जनों के सतानेवाले अत्याचारियों को सदा वश में रक्खे ॥३॥
टिप्पणी: ३−(यथा) येन प्रकारेण (शेपः) अ० ४।३७।७। पराक्रमः (अपायातै) अय गतौ-लेट्। लेटोऽडाटौ। पा० ३।४।९४। आडागमः। वैतोऽन्यत्र। पा० ३।४।९६। एकारस्य ऐकारः। अपगच्छेत् (स्त्रीषु) अ० १।८।१। स्तूयते सा स्त्री, ष्टुञ् स्तुतौ−ड्रट्, ङीप्। स्तुत्यासु नारीषु यद्वा ताभिस्तुल्यासु सत्प्रजासु (अनावयाः) अन्+आङ्+ वी गतौ-असुन्। अनागमनीयः (अवस्थस्य) अव हिंसायाम्-अच्+तिष्ठतेः-क। हिंसने स्थितिशीलस्य (क्नदीवतः) खनिकष्यज्यसि०। उ० ४।१४०। क्रद आह्वानरोदनयोः-इ प्रत्ययः, मतुप्, रस्य नकारः, सांहितिको दीर्घः। संज्ञायाम्। पा० ८।२।११। मस्य वः। दुर्वचनशीलस्य (शाङ्कुरस्य) मन्दिवाशिमथि०। उ० १।३८। शकि संशये, अन्तर्गतण्यर्थः-उरच् स्वार्थेऽण्। शङ्कोत्पादकस्य (नितोदिनः) तुद व्यथने-णिनि। नित्यपीडकस्य (यत्) सामर्थ्यम् (आततम्) आयतम् (तत्) (अवतनु) सङ्कोचय (यत्) (उत्ततम्) ऊर्ध्वविस्तृतम् (तत्) सामर्थ्यम् (नितनु) नितनं नीचीनं कुरु ॥