वांछित मन्त्र चुनें

सं॒व॒त्स॒रीणा॑ म॒रुतः॑ स्व॒र्का उ॒रुक्ष॑याः॒ सग॑णा॒ मानु॑षासः। ते अ॒स्मत्पाशा॒न्प्र मु॑ञ्च॒न्त्वेन॑सः सांतप॒ना म॑त्स॒रा मा॑दयि॒ष्णवः॑ ॥

मन्त्र उच्चारण
पद पाठ

सम्ऽवत्सरीणा: । मरुत: । सुऽअर्का: । उरुऽक्षया: । सऽगणा: । मानुषास: । ते । अस्मत् । पाशान् । प्र । मुञ्चन्तु । एनस: । साम्ऽतपना: । मत्सरा: । मादयिष्णव: ॥८२.३॥

अथर्ववेद » काण्ड:7» सूक्त:77» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

वीरों के कर्त्तव्य का उपदेश।

पदार्थान्वयभाषाः - (संवत्सरीणाः) पूरे निवास काल तक [जीवन भर] प्रार्थना किये गये, (स्वर्काः) बड़े वज्रोंवाले (उरुक्षयाः) बड़े घरोंवाले, (सगणाः) सेनाओंवाले, (मानुषासः) मननशील (मरुतः) शूर पुरुष हैं। (ते) वे (सांतपनाः) बड़े ऐश्वर्यवाले, (मत्सराः) प्रसन्न रहनेवाले, (मादयिष्णवः) प्रसन्न रखनेवाले पुरुष (अस्मत्) हम से (एनसः) पाप के (पाशान्) फन्दों को (प्र मुञ्चन्तु) छुड़ा देवें ॥३॥
भावार्थभाषाः - वे शूर वीर पुरुष धन्य हैं, जो प्रसन्नता से पुरुषार्थ करके सबको क्लेशों से छुड़ा कर सुखी करते हैं ॥३॥
टिप्पणी: ३−(संवत्सरीणाः) संपूर्वाच्चित्। उ० ३।७२। सम्+वस निवासे-सरन्। सः स्यार्धधातुके। पा० ७।४।४९। सस्य तत्वम्। संपरिपूर्वात् ख च। पा० ५।१।९२। संवत्सर-ख, अधीष्टार्थे। सम्वत्सरं सम्यग् निवासकालमधीष्टाः प्रार्थिताः (मरुतः)-म० १। शूराः (स्वर्काः) अ० ७।२४।१। सुवज्रिणः (उरुक्षयाः) क्षि निवासगत्योरैश्वर्ये च विस्तीर्णगृहाः (सगणाः) सैन्यैः सहिताः (मानुषासः) अ० ४।१४।५। असुक्। मनुर्मननं येषां ते (ते) मरुतः (अस्मत्) अस्मत्तः (पाशान्) बन्धान् (प्र) (मुञ्चन्तु) मोचयन्तु (एनसः) पापस्य (सांतपनाः)-म० १। पूर्णैश्वर्यवन्तः (मत्सराः) अ० ४।२५।६। मदी हर्षे-सरन्। हृष्टाः। प्रसन्नाः (मादयिष्णवः) णेश्छन्दसि। पा० ३।२।१३७। मादयतेः-इष्णुच्। हर्षकराः ॥