वांछित मन्त्र चुनें

उप॑हूता॒ भूरि॑धनाः॒ सखा॑यः स्वा॒दुसं॑मुदः। अ॑क्षु॒ध्या अ॑तृ॒ष्या स्त॒ गृहा॒ मास्मद्बि॑भीतन ॥

मन्त्र उच्चारण
पद पाठ

उपऽहूता: । भूरिऽधना: । सखाय: । स्वादुऽसंमुद: । अक्षुध्या: । अतृष्या: । स्त । गृहा: । मा । अस्मत् । बिभीतन ॥६२.४॥

अथर्ववेद » काण्ड:7» सूक्त:60» पर्यायः:0» मन्त्र:4


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कुवचन के त्याग का उपदेश।

पदार्थान्वयभाषाः - (भूरिधनाः) बड़े धनी, (स्वादुसंमुदः) स्वादिष्ठ पदार्थों से आनन्द करनेवाले (सखायः) मित्र लोग (उपहूताः) स्वागत किये गये हैं। (गृहाः) हे घर के लोगो ! (अक्षुध्याः, अतृष्याः, स्त) तुम भूखे-प्यासे मत रहो, (अस्मत्) हम से (मा बिभीतन) मत भय करो ॥४॥
भावार्थभाषाः - बाहिर से आये हुए और घरवाले सब पुरुष प्रसन्न होकर परस्पर आनन्द करें ॥४॥
टिप्पणी: ४−(उपहूताः) सत्कारेण प्रार्थिताः (भूरिधनाः) प्रभूतधनाः (सखायः) सुहृदः (स्वादुसंमुदः) स्वादुभी रोचकैः पदार्थैः संमोदमानाः (अक्षुध्याः) तदर्हति। पा० ५।१।६३। इत्यर्थे। छन्दसि च। पा० ५।१।६७। क्षुध्-य−प्रत्ययः। क्षुधं बुभुक्षामर्हन्तीति क्षुध्याः, न क्षुध्या अक्षुध्याः। क्षुधारहिताः (अतृष्याः) पूर्ववत् तृष्-य प्रत्ययः। तृष्णारहिताः (स्त) भवत (गृहाः) गृहस्थाः (अस्मत्) अस्मत्तः (मा बिभीतन) ञिभी भये लोटि तस्य तनादेशः। भयं मा प्राप्नुत ॥