वांछित मन्त्र चुनें

इ॒मे गृ॒हा म॑यो॒भुव॒ ऊर्ज॑स्वन्तः॒ पय॑स्वन्तः। पू॒र्णा वा॒मेन॒ तिष्ठ॑न्त॒स्ते नो॑ जानन्त्वाय॒तः ॥

मन्त्र उच्चारण
पद पाठ

इमे । गृहा: । मय:ऽभुव: । ऊर्जस्वन्त: । पयस्वन्त: । पूर्णा: । वामेन । तिष्ठन्त: । ते । न: । जानन्तु । आऽयत: ॥६२.२॥

अथर्ववेद » काण्ड:7» सूक्त:60» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

कुवचन के त्याग का उपदेश।

पदार्थान्वयभाषाः - (इमे) यह (गृहाः) घर के लोग (मयोभुवः) आनन्द देनेवाले, (ऊर्जस्वन्तः) बड़े पराक्रमी, (पयस्वन्तः) उत्तम जल, दुग्ध आदिवाले, (वामेन) उत्तम धन से (पूर्णाः) भरपूर (तिष्ठन्तः) खड़े हुए हैं। (ते) वे लोग (आयतः) आते हुए (नः) हमको (जानन्तु) जानें ॥२॥
भावार्थभाषाः - घर के लोग बाहिर से आये हुए गृहस्थों और अतिथियों का यथावत् सत्कार करें ॥२॥
टिप्पणी: २−(इमे) (गृहाः) गृहस्थाः (मयोभुवः) अ० १।५।१। सुखस्य भावयितारः (ऊर्जस्वन्तः) अ० ३।१२।२। प्रभूतपराक्रमिणः (पयस्वन्तः) उत्तमजलदुग्धादिसमृद्धाः (पूर्णाः) समृद्धाः (वामेन) प्रशस्येन धनेन। वामः प्रशस्यः-निघ० ३।८। (तिष्ठन्तः) (ते) गृहाः (जानन्तु) अवबुध्यन्ताम् (आयतः) इण् गतौ-शतृ। आगच्छतः ॥