वांछित मन्त्र चुनें
देवता: सरस्वती ऋषि: वामदेवः छन्द: जगती स्वर: सरस्वती सूक्त

यदा॒शसा॒ वद॑तो मे विचुक्षु॒भे यद्याच॑मानस्य॒ चर॑तो॒ जनाँ॒ अनु॑। यदा॒त्मनि॑ त॒न्वो मे॒ विरि॑ष्टं॒ सर॑स्वती॒ तदा पृ॑णद्घृ॒तेन॑ ॥

मन्त्र उच्चारण
पद पाठ

यत् । आऽशसा । वदत: । मे । विऽचुक्षुभे । यत् । याचमानस्य । चरत: । जनान् । अनु । यत् । आत्म्ननि । तन्व: । मे । विऽरिष्टम् । सरस्वती । तत् । आ । पृणत् । घृतेन ॥५९.१॥

अथर्ववेद » काण्ड:7» सूक्त:57» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

गृहस्थ धर्म का उपदेश।

पदार्थान्वयभाषाः - (वदतः मे) मुझ बोलनेवाले का (यत्) जो [मन] (आशसा) किसी हिंसा से (विचुक्षुभे) व्याकुल हो गया है, [अथवा] (जनान् अनु) मनुष्यों के पास (चरतः) चलकर (याचमानस्य) मुझ माँगनेवाले का (यत्) जो [मन व्याकुल हो गया है]। [अथवा] (मे तन्वः) मेरे शरीर के (आत्मनि) आत्मा में (यत् विरिष्टम्) जो कष्ट है, (सरस्वती) विज्ञानयुक्त विद्या (तत्) उसको (घृतेन) प्रकाश वा सारतत्त्व से (आ) भली-भाँति (पृणत्) भर देवे ॥१॥
भावार्थभाषाः - मनुष्य अविद्या के कारण से प्राप्त हुए क्लेशों को विद्या द्वारा नाश करें ॥१॥
टिप्पणी: १−(यत्) मनः (आशसा) शसु हिंसायाम् क्विप्। आशसनेन। आशा−भङ्गेन (वदतः) भाषमाणस्य (मे) मम (विचुक्षुभे) विशेषेण क्षुभितं व्याकुलं बभूव (यत्) मनः (याचमानस्य) प्रार्थयमानस्य (चरतः) गच्छतः (जनान् अनु) जनान् प्रति (यत्) (आत्मनि) स्वस्मिन् (तन्वः) शरीरस्य (मे) मम (विरिष्टम्) रिष्ट हिंसायाम्-क्त। विशेषेण क्लिष्टम् (तत्) दुःखम् (सरस्वती) वाक्-निघ० १।११। विज्ञानवती विद्या (तत्) (आ) समन्तात् (पृणत्) पृण प्रीणने-लेटि, अडागमः। पूरयेत् ॥