सावी॒र्हि दे॑व प्रथ॒माय॑ पि॒त्रे व॒र्ष्माण॑मस्मै वरि॒माण॑मस्मै। अथा॒स्मभ्यं॑ सवित॒र्वार्या॑णि दि॒वोदि॑व॒ आ सु॑वा॒ भूरि॑ प॒श्वः ॥
पद पाठ
सावी: । हि ।देव । प्रथमाय । पित्रे । वर्ष्माणम् । अस्मै । वरिमाणम् । अस्मै । अथ । अस्मभ्यम् । सवित: । वार्याणि । दिव:ऽदिव: । आ । सुव । भूरि । पश्व: ॥१५.३॥
अथर्ववेद » काण्ड:7» सूक्त:14» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ईश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - (देव) हे प्रकाशस्वरूप परमेश्वर ! तूने (हि) ही (प्रथमाय) हम से पहिले वर्तमान (पित्रे) पालन करनेवाले (अस्मै) इस [पुरुष] को और (अस्मै) इस [दूसरे पुरुष] को (वर्ष्माणम्) उच्च स्थान और (वरिमाणम्) फैलाव वा उत्तमपन (सावीः) दिया है। (अथ) सो (सवितः) हे सर्वप्रेरक परमेश्वर ! (अस्मभ्यम्) हमें (दिवोदिवः) सब दिनों (वार्याणि) उत्तम विज्ञान और धन और (भूरि) बहुत (पश्वः) मनुष्य, गौ, घोड़ा, हाथी आदि (आ सुव) भेजता रहे ॥३॥
भावार्थभाषाः - जिस प्रकार परमेश्वर ने हमसे पहिले उपकारी महात्माओं को उच्च पदवी दी है, वैसे ही परमेश्वर की आशा मान कर हम भी सुख के भागी होवें ॥३॥
टिप्पणी: ३−(सावीः) षू प्रेरणे-लुङ्, अडभावः। प्रेरितवानसि (हि) निश्चयेन (देव) हे प्रकाशस्वरूप परमेश्वर (प्रथमाय) अस्मत्प्रथमभवाय (पित्रे) पालकाय। उपकारिणे पुरुषाय (वर्ष्माणम्) अ० ३।४।२। उन्नतस्थानम् (अस्मै) एकस्मै पुरुषाय (वरिमाणम्) अ० ४।६।२। उरु यद्वा वर-इमनिच्। उरुत्वं विस्तारम्। वरत्वं श्रेष्ठत्वम् (अस्मै) अन्यस्मै (अथ) तस्मात् (अस्मभ्यम्) (सवितः) हे सर्वप्रेरक (वार्याणि) वरणीयानि विज्ञानानि धनानि वा (दिवोदिवः) दिवसान् दिवसान् (आसुव) अभिमुखं प्रेरय (भूरि) बहूनि (पश्वः) छान्दसं रूपम्। अ० १।३०।३। पशून्। मनुष्यादिजीवान्। पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९ ॥