ए॒षाम॒हं स॒मासी॑नानां॒ वर्चो॑ वि॒ज्ञान॒मा द॑दे। अ॒स्याः सर्व॑स्याः सं॒सदो॒ मामि॑न्द्र भ॒गिनं॑ कृणु ॥
पद पाठ
एषाम् । अहम् । सम्ऽआसीनानाम् । वर्च: । विऽज्ञानम् । आ । ददे । अस्या: । सर्वस्या: । सम्ऽसद: । माम् । इन्द्र । भगिनम् । कृणु ॥१३.३॥
अथर्ववेद » काण्ड:7» सूक्त:12» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सभापति के कर्तव्यों का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैं [सभापति] (एषाम्) इन (सभासीनानाम्) यथावत् बैठे हुए पुरुषों का (वर्चः) तेज और (विज्ञानम्) विज्ञान (आ ददे) अङ्गीकार करता हूँ। (इन्द्र) हे परमेश्वर ! (माम्) मुझको (अस्याः) इस (सर्वस्याः संसदः) सब सभा का (भगिनम्) ऐश्वर्यवान् (कृणु) कर ॥३॥
भावार्थभाषाः - जहाँ सभापति और सब सभासद् एकमन होकर अपना पराक्रम और विज्ञान अर्थात् सूक्ष्म विचार बढ़ाते हैं, वहाँ पर सब ऐश्वर्यवान् होते हैं ॥३॥
टिप्पणी: ३−(एषाम्) पुरोवर्तिनाम् (अहम्) सभापतिः (समासीनानाम्) आस उपवेशने-शानच्। ईदासः। पा० ७।२।८३। आकारस्य ईकारः। यथावदुपविष्टानाम् (वर्चः) तेजः। पराक्रमम् (आ ददे) अङ्गीकरोमि (अस्याः) पुरः स्थितायाः (सर्वस्याः) (संसदः) सभायाः (माम्) (इन्द्र) हे परमेश्वर (भगिनम्) ऐश्वर्यवन्तम् (कृणु) कुरु ॥