वांछित मन्त्र चुनें

एक॑शतं ल॒क्ष्म्यो॒ मर्त्य॑स्य सा॒कं त॒न्वा ज॒नुषोऽधि॑ जा॒ताः। तासां॒ पापि॑ष्ठा॒ निरि॒तः प्र हि॑ण्मः शि॒वा अ॒स्मभ्यं॑ जातवेदो॒ नि य॑च्छ ॥

मन्त्र उच्चारण
पद पाठ

एकऽशतम् । लक्ष्म्य: । मर्त्यस्य । साकम् । तन्वा । जनुष: । अधि । जाता: । तासाम् । पापिष्ठा: । नि: । इत: । प्र । हिण्म: । शिवा: । अस्मभ्यम् । जातऽवेद: । नि । यच्छ ॥१२०.३॥

अथर्ववेद » काण्ड:7» सूक्त:115» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

दुर्लक्षण के नाश का उपदेश।

पदार्थान्वयभाषाः - (एकशतम्) एक सौ एक [अपरिमित, पापिष्ठ और माङ्गलिक] (लक्ष्म्यः) लक्षण (मर्त्यस्य) मनुष्य के (तन्वा साकम्) शरीर के साथ (जनुषः) जन्म से (अधि) अधिकारपूर्वक (जाताः) उत्पन्न हुए हैं। (तासाम्) उन में से (पापिष्ठाः) पापिष्ठ [लक्षणों] को (इतः) यहाँ से (निः) निश्चय करके (प्र हिण्मः) हम निकाले देते हैं, (जातवेदः) हे उत्पन्न पदार्थों के जाननेवाले परमेश्वर ! (अस्मभ्यम्) हमें (शिवाः) माङ्गलिक [लक्षण] (नि) नियम से (यच्छ) दे ॥३॥
भावार्थभाषाः - मनुष्य अपने पूर्व जन्मों के कर्मफलों से शुभ और अशुभ लक्षणों सहित जन्मता है। जो मनुष्य परमेश्वर की आज्ञा में चलते हैं, वे क्लेशों को मिटाकर मोक्षसुख भोगते हैं ॥३॥
टिप्पणी: ३−(एकशतम्) एकाधिकशतसंख्याकाः। अपरिमिता इत्यर्थः (लक्ष्म्यः) म० १। लक्षणानि (मर्त्यस्य) मनुष्यस्य (साकम्) सह (तन्वा) शरीरेण (जनुषः) अ० ४।१।२। जन्मनः सकाशात् (अधि) अधिकारे (जाताः) उत्पन्नाः (तासाम्) लक्ष्मीणां मध्ये (पापिष्ठाः) अतिशयेन पापीः (निः) निश्चयेन (इतः) अस्मात्स्थानात् (प्र हिण्मः) हि गतौ वृद्धौ च। प्रेरयामः। अपसारयामः (शिवाः) मङ्गलकारिणीर्लक्ष्मीः (अस्मभ्यम्) धर्मात्मभ्यः (जातवेदः) उत्पन्नानां पदार्थानां वेदितः (नि) नियमेन (यच्छ) दाण् दाने। देहि ॥