इन्द्र॑स्य कु॒क्षिर॑सि सोम॒धान॑ आ॒त्मा दे॒वाना॑मु॒त मानु॑षाणाम्। इ॒ह प्र॒जा ज॑नय॒ यास्त॑ आ॒सु या अ॒न्यत्रे॒ह तास्ते॑ रमन्ताम् ॥
पद पाठ
इन्द्रस्य । कुक्षि: । असि । सोमऽधान: । आत्मा । देवानाम् । उत । मानुषाणाम्। इह । प्रऽजा: । जनय । या: । ते । आसु । या: । अन्यत्र । इह । ता: । ते । रमन्ताम् ॥११६.१॥
अथर्ववेद » काण्ड:7» सूक्त:111» पर्यायः:0» मन्त्र:1
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
ईश्वर के गुणों का उपदेश।
पदार्थान्वयभाषाः - [हे ईश्वर !] तू (इन्द्रस्य) परम ऐश्वर्य का (कुक्षिः) कोख रूप, (सोमधानः) अमृत का आधार, (देवानाम्) दिव्य लोकों [सूर्य, पृथिवी आदि] का, (उत) और (मानुषाणाम्) मनुष्यों का (आत्मा) आत्मा [अन्तर्यामी] (असि) है। (इह) यहाँ पर (प्रजाः) प्रजाओं को (जनय) उत्पन्न कर, (याः) जो (ते) तेरे लिये [तेरी आज्ञाकारी] (आसु) इन [प्रजाओं] में, और (याः) जो (अन्यत्र) दूसरे स्थान में [हों] (इह) यहाँ पर (ताः) वे सब (ते) तेरे लिये (रमन्ताम्) विहार करें ॥१॥
भावार्थभाषाः - विद्वान् लोग प्रयत्न करें कि सब मनुष्य निकट और दूर स्थान में ईश्वर की आज्ञा मानते रहें ॥१॥
टिप्पणी: १−(इन्द्रस्य) परमैश्वर्यस्य (कुक्षिः) अ० २।५।४। कुक्षिरूपः (सोमधानः) अमृताधारः (आत्मा) अन्तर्यामी (देवानाम्) सूर्यपृथिव्यादिदिव्यलोकानाम् (उत) अपि (मानुषाणाम्) मनुष्याणाम् (इह) (प्रजाः) मनुष्यादिरूपाः (जनय) उत्पादय (याः) प्रजाः (ते) तुभ्यम्। तवाज्ञापालनाय (आसु) प्रजासु (याः) (अन्यत्र) अन्यस्मिन् देशे (इह) अत्र (ताः) प्रजाः (ते) तुभ्यम् (रमन्ताम्) विहरन्तु ॥