दे॒वान्यन्ना॑थि॒तो हु॒वे ब्र॑ह्म॒चर्यं॒ यदू॑षि॒म। अ॒क्षान्यद्ब॒भ्रूना॒लभे॒ ते नो॑ मृडन्त्वी॒दृशे॑ ॥
पद पाठ
देवान् । यत् । नाथित: । हुवे । ब्रह्मऽचर्यम् । यत् । ऊषिम । अक्षान् । यत् । बभ्रून् । आऽलभे । ते । न: । मृडन्तु । ईदृशे ॥११४.७॥
अथर्ववेद » काण्ड:7» सूक्त:109» पर्यायः:0» मन्त्र:7
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
व्यवहारसिद्धि का उपदेश।
पदार्थान्वयभाषाः - (यत्) जिससे कि (नाथितः) प्रार्थी मैं (देवान्) विद्वानों को (हुवे) बुलाता हूँ, (यत्) जिससे कि (ब्रह्मचर्यम्) ब्रह्मचर्य [आत्मनिग्रह, वेदाध्ययन आदि तप] में (ऊषिम) हमने निवास किया है। (यत्) जिससे कि (बभ्रून्) पालन करनेवाले (अक्षान्) व्यवहारों को (आलभे) मैं यथावत् ग्रहण करता हूँ, (ते) वे सब [विद्वान्] (नः) हमें (ईदृशे) ऐसे [कर्म] में (मृडन्तु) सुखी करें ॥७॥
भावार्थभाषाः - मनुष्य विद्वानों की संगति, ब्रह्मचर्यसेवन और उत्तम व्यवहारों से सुखी होवें ॥७॥
टिप्पणी: ७−(देवान्) विदुषः (यत्) यस्मात्कारणात् (नाथितः) नाथृ याच्ञोपतापैश्वर्याशीःषु-क्त। प्रार्थी (हुवे) आह्वयामि (ब्रह्मचर्यम्) गदमदचरयमश्चानुपसर्गे। पा० ३।१।१००। ब्रह्म+चर गतौ-यत्। ब्रह्मणे वेदलाभाय चर्यं चरणम्। आत्मनिग्रहवेदाध्ययनादितपः (यत्) यस्मात् (ऊषिम) वस-निवासे-लिट्। वयमुषितवन्तः (अक्षान्) व्यवहारान् (यत्) (बभ्रून्) भरणशीलान् (आलभे) समन्ताद् गृह्णामि (तं) विद्वांसः (नः) अस्मान् (मृडन्तु) सुखयन्तु (ईदृशे) एवंविधे धार्मिके कर्मणि ॥