वांछित मन्त्र चुनें

संव॑सव॒ इति॑ वो नाम॒धेय॑मुग्रंप॒श्या रा॑ष्ट्र॒भृतो॒ ह्यक्षाः। तेभ्यो॑ व इन्दवो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥

मन्त्र उच्चारण
पद पाठ

सम्ऽवसव: । इति । व: । नामऽधेयम् । उग्रम्ऽपश्या: । राष्ट्रऽभृत: । हि । अक्षा: । तेभ्य: । व: । इन्दव: । हविषा । विधेम । वयम् । स्याम । पतय: । रयीणाम्॥११४.६॥

अथर्ववेद » काण्ड:7» सूक्त:109» पर्यायः:0» मन्त्र:6


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

व्यवहारसिद्धि का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] (संवसवः)सम्यक् धनवाले, वा मिल के रहनेवाले (इति) यह (वः) तुम्हारा (नामधेयम्) नाम है, (हि) क्योंकि [तुम] (उग्रंपश्याः) उग्रदर्शी [बड़े तेजस्वी] (राष्ट्रभृतः) राज्यपोषक और (अक्षाः) व्यवहारकुशल हो। (इन्दवः) हे बड़े ऐश्वर्यवालो ! (तेभ्यः वः) उन तुमको (हविषा) आत्मदान से (विधेम) हम पूजें, (वयम्) हम (रयीणाम्) अनेक धनों के (पतयः) स्वामी (स्याम) होवें ॥६॥
भावार्थभाषाः - मनुष्य विद्वानों के सत्सङ्ग और सत्कार से अनेक धन प्राप्त करें ॥६॥
टिप्पणी: ६−(संवसवः) सम्यग् वसूनि धनानि येषां ते यद्वा, सम्यग् वासयितारः (इति) एवं प्रकारेण (वः) युष्माकम् (नामधेयम्) नाम (उग्रंपश्याः) उग्रंपश्येरंमदपाणिंधमाश्च। पा० ३।२।३७। उग्र+दृशिर् प्रेक्षणे-खश्। उग्रदर्शिनः। महातेजस्विनः (राष्ट्रभृतः) राज्यपोषकाः (हि) यस्मात्कारणात् (अक्षाः) अक्ष-अर्शआद्यच्। व्यवहारवन्तः (तेभ्यः) तथाभूतेभ्यः (वः) युष्मभ्यम् (इन्दवः) अ० ६।२।२। हे परमैश्वर्यवन्तः (हविषा) आत्मदानेन (विधेम) परिचरणं कुर्याम (वयम्) (स्याम) (पतयः) (रयीणाम्) विविधधनानाम् ॥