वांछित मन्त्र चुनें

यो नो॑ द्यु॒वे धन॑मि॒दं च॒कार॒ यो अ॒क्षाणां॒ ग्लह॑नं॒ शेष॑णं च। स नो॑ दे॒वो ह॒विरि॒दं जु॑षा॒णो ग॑न्ध॒र्वेभिः॑ सध॒मादं॑ मदेम ॥

मन्त्र उच्चारण
पद पाठ

य: । न: । द्युवे । धनम् । इदम् । चकार । य: । अक्षाणाम् । ग्लहनम् । शेषणम् । च । स: । न: । देव: । हवि: । इदम्। जुषाण: । गन्धर्वेभि: । सधऽमादम् । मदेम ॥११४.५॥

अथर्ववेद » काण्ड:7» सूक्त:109» पर्यायः:0» मन्त्र:5


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

व्यवहारसिद्धि का उपदेश।

पदार्थान्वयभाषाः - (यः) जिस [परमेश्वर] ने (नः) हमारे (द्युवे) आनन्द के लिये (इदं धनम्) यह धन, और (यः) जिसने (अक्षाणाम्) व्यवहारों का (ग्लहनम्) ग्रहण (च) और (शेषणम्) विशेषपन [ब्राह्मणपन, क्षत्रियपन, वैश्यपन और शूद्रपन] (चकार) बनाया है। (सः) वह (देवः) व्यवहारकुशल [परमेश्वर] (नः) हमारे (इदम्) इस (हविः) दान [भक्तिदान] को (जुषाणः) स्वीकार करनेवाला [हो, कि] (गन्धर्वेभिः) विद्या वा पृथिवी के धारण करनेवाले [मनुष्यों] के साथ (सधमादम्) परस्पर आनन्द (मदेम) हम भोगें ॥५॥
भावार्थभाषाः - मनुष्य आदि गुरु परमेश्वर के अनुग्रह से सब व्यवहारों में कुशल होकर, विद्वानों के सत्सङ्ग से उन्नति करें ॥५॥
टिप्पणी: ५−(यः) परमेश्वरः (नः) अस्मदीयाय (द्युवे) दिवु मोदे-क्विप्। आनन्दाय (धनम्) (इदम्) (चकार) कृतवान् (यः) (अक्षाणाम्) अ० ६।७०।१। व्यवहाराणाम् (ग्लहनम्) रस्य लः। ग्रहणम् (शेषणम्) शिष्लृ विशेषणे-ल्युट्। विशेषणम्। गुणप्रकाशनं यथा ब्राह्मणत्वं क्षत्रियत्वं वैश्यत्वं शूद्रत्वं च (च) (सः) (नः) अस्माकं (देवः) व्यवहारकुशलः परमेश्वरः (हविः) दानम्। आत्मसमर्पणम् (इदम्) वक्ष्यमाणम् (जुषाणः) सेवमानः। भवतु इति शेषः (गन्धर्वेभिः) अ० २।१।२। गोर्विद्यायाः पृथिव्या वा धारकैः पुरुषैः (सधमादम्) परस्परानन्दम् (मदेम) हृष्येम ॥