वांछित मन्त्र चुनें

अ॒भि त्वे॑न्द्र॒ वरि॑मतः पु॒रा त्वां॑हूर॒णाद्धु॑वे। ह्वया॑म्यु॒ग्रं चे॒त्तारं॑ पु॒रुणा॑मानमेक॒जम् ॥

मन्त्र उच्चारण
पद पाठ

अभि । त्वा । इन्द्र । वरिमत: । पुरा । त्वा । अंहूरणात् । हुवे । ह्वयामि । उग्रम् । चेत्तारम् । पुरुऽनामानम् । एकऽजम् ॥९९.१॥

अथर्ववेद » काण्ड:6» सूक्त:99» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

संग्राम में जय का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे संपूर्ण ऐश्वर्यवाले इन्द्र जगदीश्वर ! (त्वा त्वाम्) तुझको, तुझको (वरिमतः) तेरे विस्तार के कारण (अंहूरणात्) पापवाले कर्म से (पुरा) पहिले (अभि) सब ओर से (हुवे) मैं बुलाता हूँ। (उग्रम्) तेजस्वी, (चेत्तारम्) सत्य और असत्य के जाननेवाले, (पुरुनामानम्) अनेक उत्तम नामवाले, (एकजम्) अकेले उत्पन्न [अद्वितीय, तुझ प्रभु] को (ह्वयामि) मैं पुकारता हूँ ॥१॥
भावार्थभाषाः - मनुष्यों को उचित है कि उस जगदीश्वर को सर्वव्यापक और सर्वशक्तिमान् जान कर पाप कर्म को छोड़ कर शुभ कर्म करते रहें ॥१॥
टिप्पणी: १−(अभि) अभितः (त्वा) त्वाम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (वरिमतः) अ० ४।५।२। उरुत्वात्। विस्तारहेतोः (पुरा) पूर्वम् (त्वा) (अंहूरणात्) खर्जिपिञ्जादिभ्य ऊरोलचौ। उ० ४।९०। इति अहि गतौ−ऊर−प्रत्ययः, इदित्त्वान्नुम्। पामादिभ्यो नः। वा० पा० ५।२।१००। इति मत्वर्थे नः। आङ्पूर्वाद्धन्तेर्वा रूपमुन्नेयम्। अंहुरोंऽहस्वान्नहूरणमित्यप्यस्य भवति−निरु० ६।२७। अंहस्वतः पापयुक्तात् कर्मणः (हुवे) ह्वयामि (ह्वयामि) (उग्रम्) तेजस्विनम् (चेत्तारम्) सत्यासत्ययोर्विज्ञातारम् (पुरुनामानम्) पुरुभिर्बहुभिः प्रशस्तैर्नामधेयैर्युक्तम् (एकजम्) एकं जातम्। अद्वितीयम् ॥