वांछित मन्त्र चुनें

त्वमि॑न्द्राधिरा॒जः श्र॑व॒स्युस्त्वं भू॑र॒भिभू॑ति॒र्जना॑नाम्। त्वं दैवी॑र्विश इ॒मा वि रा॒जायु॑ष्मत्क्ष॒त्रम॒जरं॑ ते अस्तु ॥

मन्त्र उच्चारण
पद पाठ

त्वम् । इन्द्र । अधिऽराज: । श्रवस्यु: । त्वम् । भू: । अभिऽभूति: । जनानाम् । त्वम् । दैवी: । विश: । इमा: । वि । राज । आयुष्मत् । क्षत्रम् । अजरम् । ते । अस्तु ॥९८.२॥

अथर्ववेद » काण्ड:6» सूक्त:98» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

राजा और प्रजा के धर्म का उपदेश।

पदार्थान्वयभाषाः - (इन्द्र) हे सम्पूर्ण ऐश्वर्यवाले जगदीश्वर ! (त्वम्) तू (श्रवस्युः) सब की सुननेवाला (अधिराजः) राजराजेश्वर, (त्वम्) तू ही (जनानाम् अभिभूतिः) अपने भक्तों का सब प्रकार ऐश्वर्यदाता [यद्वा पामर जनों का तिरस्कार करनेवाला] (भूः=अभूः) हुआ है। (त्वम्) तू (इमाः) इन (दैवीः) दिव्य गुणवाली (विशः) प्रजाओं पर (वि) विविध प्रकार से (राज) राज्य कर, (ते) तेरा (क्षत्रम्) राज्य [हमारे लिये] (आयुष्मत्) उत्तम जीवनवाला और (अजरम्) जरारहित [नित्य तरुण] (अस्तु) होवे ॥२॥
भावार्थभाषाः - मनुष्य परमदयालु का शरण लेकर सब प्रकार उन्नति करते हुए चिरस्थायी सुख प्राप्त करें ॥२॥
टिप्पणी: २−(त्वम्) (इन्द्र) परमैश्वर्यवान् भगवान् (अधिराजः) म० १। राज्ञामधिको राजा (श्रवस्युः) श्रु−असुन्। श्रवः श्रवणम्। कर्तुः क्यङ् सलोपश्च। पा० ३।१।११। इति क्यङ्। क्याच्छन्दसि। पा० ३।२।१७०। उ प्रत्ययः। श्रव इवाचरतीति। सर्वस्य श्रोता (भूः) लुङि अडभावः। अभूः (अभिभूतिः) अभितः सर्वतो भूतिरैश्वर्यं यस्मात्सः। सर्वैश्वर्यदाता। यद्वा, अभिभविता तिरस्कर्ता (जनानाम्) भक्तानां पामरजनानां वा (दैवीः) दिव्यगुणसम्पन्नाः (विशः) प्रजाः (इमाः) दृश्यमानाः (वि) विविधम् (राज) राजय। शाधि (आयुष्मत्) उत्तमजीवनयुक्तम् (क्षत्रम्) राज्यम् (अजरम्) जरारहितम्। नित्यतरुणम् (ते) तव (अस्तु) भवतु ॥