वांछित मन्त्र चुनें

भूते॑ ह॒विष्म॑ती भवै॒ष ते॑ भा॒गो यो अ॒स्मासु॑। मु॒ञ्चेमान॒मूनेन॑सः॒ स्वाहा॑ ॥

मन्त्र उच्चारण
पद पाठ

भूते । हविष्मती । भव । एष: । ते । भाग: । य: । अस्मासु । मुञ्च । इमान् । अमून् । एनस: । स्वाहा ॥८४.२॥

अथर्ववेद » काण्ड:6» सूक्त:84» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

पाप से मुक्ति का उपदेश।

पदार्थान्वयभाषाः - (भूते) हे चिन्तायोग्य [अलक्ष्मी !] [हमारे लिये] (हविष्मती) देने और लेने योग्य क्रियावाली (भव) हो, (एषः) यह (ते) तेरा (भागः) सेवनीय व्यवहार है, (यः) जो (अस्मासु) हम लोगों के बीच होवे।(इमान्) इन [इस जन्मवाले] और (अमून्) उन [अगले वा पिछले जन्मवाले] जीवों को (एनसः) पाप से (मुञ्च) मुक्त करदे, (स्वाहा) यह सुन्दर वाणी है ॥२॥
भावार्थभाषाः - मनुष्य तीव्र तप अर्थात् पूर्ण पुरुषार्थ करके भूत भविष्यत् और वर्तमान क्लेशों के फल को नाश करके सुखी होवे ॥२॥
टिप्पणी: २−(भूते) क्तिच्क्तौ च संज्ञायाम्। पा० ३।३।१७४। इति चौरादिको भू चिन्तने−क्तिच्। आमन्त्रितस्य च। पा० ६।१।१९८। इति आदिरुदात्तः। हे चिन्तनीये निर्ऋते (हविष्मती) दातव्यग्राह्यक्रियायुक्ता (भव) (एषः) वक्ष्यमाणः−मुञ्चेमानम् (ते) तव (भागः) भजनीयः स्वीकरणीयो व्यवहारः (यः) (अस्मासु) अस्माकं मध्ये भवतु (मुञ्च) विसृज (इमान्) इदानीन्तनान् जीवान् (अमून्) दूरस्थान् पूर्वपरजन्मनि वर्तमानान् (एनसः) पापात्। कष्टात् (स्वाहा) सुवाणी। सुप्रार्थना ॥