वांछित मन्त्र चुनें

यस्ते॑ऽङ्कु॒शो व॑सु॒दानो॑ बृ॒हन्नि॑न्द्र हिर॒ण्ययः॑। तेना॑ जनीय॒ते जा॒यां मह्यं॑ धेहि शचीपते ॥

मन्त्र उच्चारण
पद पाठ

य: । ते । अङ्कुश: । वसुऽदान: । बृहन् । इन्द्र । हिरण्यय: । तेन । जनिऽयते । जायाम् । मह्यम् । धेहि । शचीऽपते ॥८२.३॥

अथर्ववेद » काण्ड:6» सूक्त:82» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विवाह संस्कार का उपदेशः।

पदार्थान्वयभाषाः - (इन्द्र) हे बड़े ऐश्वर्यवाले जगदीश्वर ! (यः) जो (ते) तेरा (अङ्कुशः) गणना व्यवहार [अथवा, अङ्कुश, दुष्कर्मों का दण्ड] (बृहन्) बहुत बड़ा और (हिरण्ययः) ज्योतिःस्वरूप और (वसुदानः) धन देनेवाला है। (तेन) उसी के द्वारा, (शचीपते) वाणी वा कर्म वा बुद्धि के रक्षक परमेश्वर ! (जनीयते) पत्नी की इच्छावाले (मह्यम्) मुझे (जायाम्) वीरों को उत्पन्न करनेवाली पत्नी (धेहि) दे ॥३॥
भावार्थभाषाः - परमेश्वर के उत्तम-२ गुणों को अपने में धारण करके विद्यावान् और धनवान् होकर पति पत्नी को और पत्नी पति को अपने सदृश ग्रहण करें ॥३॥ इत्यष्टमोऽनुवाकः ॥
टिप्पणी: ३−(यः) (ते) तव (अङ्कुशः) सानसिवर्णसि०। उ० ४।१०७। इति अङ्क संख्याकरणे, यद्वा, अकि लक्षणे−उशच्। चितः। पा० ६।१।१६३। इत्यन्तोदात्तः। गणनाव्यवहारः। दुष्कर्मणां दण्डायास्त्रभेदः (वसुदानः) ददातेर्ल्युट्। धनदाता (बृहन्) महान् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (हिरण्ययः) ऋत्व्यवास्त्व्यवास्त्व०। पा० ६।४।१७५। इति हिरण्यशब्दात् मयटि मलोपः। हिरण्यमयः। तेजोमयः (तेन) अङ्कुशेन जनीयते। सुप आत्मनः क्यच्। पा० ३।१।८। इति जनि−क्यच्, शतृ। जनिर्जाया तामात्मन इच्छते पुरुषाय (जायाम्) वीरजननीम् (मह्यम्) (धेहि) देहि। प्रयच्छ (शचीपते) शच वाचि−इन्, ङीप्। शची वाङ्नाम−निघ० १।११। कर्मनाम−२।१। प्रज्ञानाम। ३।९। वाचां कर्मणां प्रज्ञानां वा रक्षक परमेश्वर ॥