वांछित मन्त्र चुनें

ये त्रयः॑ कालका॒ञ्जा दि॒वि दे॒वा इ॑व श्रि॒ताः। तान्सर्वा॑नह्व ऊ॒तये॒ऽस्मा अ॑रि॒ष्टता॑तये ॥

मन्त्र उच्चारण
पद पाठ

ये । त्रय: । कालकाञ्जा: । दिवि । देवा:ऽइव । श्रिता: । तान् । सर्वान् । अह्वे । ऊतये । अस्मै । अरिष्टऽतातये ॥८०.२॥

अथर्ववेद » काण्ड:6» सूक्त:80» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

परमात्मा की महिमा का उपदेश।

पदार्थान्वयभाषाः - (ये) जो (कारकाञ्जाः) काल अर्थात् सब की संख्या करनेवाले परमेश्वर के प्रकाश (दिवि) आकाश में (श्रिताः) आश्रित (त्रयः) तीन (देवाः इव) देवताओं [अग्नि, वायु और सूर्य−निरु० ७।५] के समान वर्तमान हैं, (तान्) उस (सर्वान्) सब [परमेश्वर के प्रकाशों] को (अस्मै) इस [जीव] के हित के लिये (ऊतये) रक्षा करने और (अरिष्टतातये) क्षेम करने को (अह्वे) मैंने बुलाया है ॥२॥
भावार्थभाषाः - मनुष्य स्वयंप्रकाशस्वरूप परमात्मा की महिमायें सर्वत्र साक्षात् करके अपनी रक्षा करें ॥२॥
टिप्पणी: २−(ये) (त्रयः) त्रिसंख्याकाः (कालकाञ्जाः) कालक+अञ्जाः। कल गतौ संख्याने च ण्यन्तात्−पचाद्यच्, स्वार्थे कन्। यद्वा। ण्वुल्तृचौ। पा० ३।१।१३३। इति कल−ण्वुल्। अञ्जू व्यक्तिम्रक्षणादिषु−घञ्। काल−कस्य कालस्य सर्वगणकस्य परमेश्वरस्य अञ्जाः प्रकाशाः (दिवि) आकाशे (देवः) यो देवः सा देवता−निरु० ७।१५। तिस्र एव देवता इति नैरुक्ताः। अग्निः पृथिवीस्थानो वायुर्वेन्द्रो वाऽन्तरिक्षस्थानः सूर्यो द्युस्थानः−निरु० ७।५। (इव) यथा (श्रिताः) आश्रिताः (तान्) प्रसिद्धान् (सर्वान्) कालकाञ्जान् (अह्वे) अ० ४।२७।१। ह्वेञ् आह्वाने−लुङ्। आहूतवानस्मि (ऊतये) रक्षार्थम् (अस्मै) अस्य जीवस्य हिताय (अरिष्टतातये) अ० ३।५।५। अरिष्ट−तातिल् करोत्यर्थे। क्षेमकरणाय ॥