यथा॑दि॒त्या वसु॑भिः सम्बभू॒वुर्म॒रुद्भि॑रु॒ग्रा अहृ॑णीयमानाः। ए॒वा त्रि॑णाम॒न्नहृ॑णीयमान इ॒माञ्जना॒न्त्संम॑नसस्कृधी॒ह ॥
पद पाठ
यथा । आदित्या: । वसुऽभि: । सम्ऽबभूवु: । मरुत्ऽभि: । उग्रा: । अहृणीयमाना: । एव । त्रिऽनामन् । अहृणीयमान: । इमान् । जनान् । सम्ऽमनस: । कृधि । इह ॥७४.३॥
अथर्ववेद » काण्ड:6» सूक्त:74» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
एकमता के लिये उपदेश।
पदार्थान्वयभाषाः - (यथा) जिस प्रकार से (उग्राः) तेजस्वी (आदित्याः) प्रकाशमान विद्वान् [अथवा अदीन देव माता अदिति, पृथ्वी वा वेदवाणी के पुत्र समान मान करनेवाले] पुरुष (अहृणीयमानाः) सङ्कोच न करते हुए (वसुभिः) उत्तम गुणों और (मरुद्भिः) शत्रुनाशक वीरों के साथ (संबभूवुः) पराक्रमी हुए हैं। (एव) वैसे ही (त्रिणामन्) हे तीनों कालों और तीनों लोकों को झुकानेवाले परमेश्वर ! (अहृणीयमानः) क्रोध न करता हुआ तू (इमानि) इन सब (जनान्) जनों को (इह) यहाँ पर (संमनसः) एकमन (कृधि) कर दे ॥३॥
भावार्थभाषाः - जिस प्रकार से पूर्वज महात्मा विद्वानों से शिक्षा पाकर उपकारक हुए हैं, इसी प्रकार मनुष्य त्रिलोकीनाथ परमात्मा की भक्ति के साथ एकचित्त होकर परोपकार करें ॥३॥
टिप्पणी: ३−(यथा) येन प्रकारेण (आदित्याः) अ० १।९।१। आङ्+ दीपी दीप्तौ−यक्। यद्वा। अदिति−ण्य। प्रकाशमाना विद्वांसः। यद्वा। अदितेः अदीनाया देवमातुः पृथिव्या वेदवाण्या वा पुत्रवद्मानकर्तारः (वसुभिः) श्रेष्ठगुणैः (संबभूवुः) सम्+भू सामर्थ्ये। पराक्रमिणो बभूवुः (मरुद्भिः) अ० १।२०।१। शत्रुमारकैः शूरैः (उग्राः) तेजस्विनः (अहृणीयमानाः) अ० १।३५।४। हृणीङ् रोषणे लज्जायां च−शानच्। असंकुचन्तः (एव) एवम्। तथा (त्रिणामन्) हे त्रयाणां लोकानां कालानां वा नामयितो वशयितः परमेश्वर (अहृणीयमानः) अक्रुध्यस्त्वम् (इमान्) अस्मदीयान् (संमनसः) समानमनस्कान्। परस्परानुरक्तचित्तान् (कृधि) कुरु (इह) अस्मिन् ग्रामनगरादौ ॥