वांछित मन्त्र चुनें

इ॒हैव स्त॒ माप॑ या॒ताध्य॒स्मत्पू॒षा प॒रस्ता॒दप॑थं वः कृणोतु। वास्तो॒ष्पति॒रनु॑ वो जोहवीतु॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥

मन्त्र उच्चारण
पद पाठ

इह । एव । स्त । मा । अप । यात । अधि । अस्मत् । पूषा । परस्तात् । अपथम् । व: । कृणोतु । वास्तो: । पति: । अनु । व: । जोहवीतु । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.३॥

अथर्ववेद » काण्ड:6» सूक्त:73» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

विद्वानों से समागम का उपदेश।

पदार्थान्वयभाषाः - [हे विद्वानो !] (इह) यहाँ पर (एव) ही (स्त) रहो (अस्मत् अधि) हम से (मा अप यात) हट कर न जाओ, (पूषा) पोषण करनेवाला गृहस्थ (परस्तात्) उत्तर-उत्तर काल में (वः) तुम्हारे लिये (अपथम्) अभय (कृणोतु) करे। (वास्तोः) घर का (पतिः) स्वामी [गृहस्थ] (वः) तुमको (अनु) निरन्तर (जोहवीतु) बुलाता रहे। (सजाताः) हे समान जन्मवाले बान्धवो ! (वः) तुम्हारे (रमतिः) क्रीड़ा [प्रसन्नता] (मयि) मुझ में (अस्तु) होवे ॥३॥
भावार्थभाषाः - जो धार्मिक गृहस्थ विद्वानों को अभय ज्ञान दान करके आदरपूर्वक गुणग्रहण करते हैं, वे संसार में आनन्द भोगते हैं ॥३॥
टिप्पणी: ३−(इह) अस्मिन् समाजे (एव) निश्चयेन (स्त) वर्त्तध्वम् (मा अपयात) दूरे मा गच्छत (अधि) पञ्चम्यर्थानुवादी (अस्मत्) अस्मत्तः (पूषा) पोषको गृहस्थः (परस्तात्) अ० ४।१६।४। पर−अस्ताति। परस्मिन् पश्चात्काले (अपथम्) अपथम्। थुड संवरणे−ड। थं भयम्। अपगतं च तत् थं च तत्। अभयम् (वः) युष्मभ्यम् (कृणोतु) करोतुं (वास्तोः) वसेरगारे णिच्च। उ० १।७०। इति वस निवासे तुन् स च णित्। वास्तुर्वसतेर्निवासकर्मणः−निरु० १२।१६। गृहस्य (पतिः) स्वामी (अनु) अनन्तरम् (वः) युष्मान् (जोहवीतु) अ० –२।१२।३। ह्वयतेर्यङ्लुकि लोट्। पुनः पुनराह्वयतु। अन्यत् पूर्ववत्−म० २ ॥