देवता: सामंनस्यम्, वरुणः, सोमः, अग्निः, बृहस्पतिः, वसुगणः
ऋषि: अथर्वा
छन्द: त्रिष्टुप्
स्वर: सांमनस्य सूक्त
यो वः॒ शुष्मो॒ हृद॑येष्व॒न्तराकू॑ति॒र्या वो॒ मन॑सि॒ प्रवि॑ष्टा। तान्त्सी॑वयामि ह॒विषा॑ घृ॒तेन॒ मयि॑ सजाता र॒मति॑र्वो अस्तु ॥
पद पाठ
य: । व: । शुष्म: । हृदयेषु । अन्त: । आऽकूति: । या । व: । मनसि । प्रऽविष्टा । तान् । सीवयामि । हविषा । घृतेन । मयि । सऽजाता: । रमति: । व: । अस्तु ॥७३.२॥
अथर्ववेद » काण्ड:6» सूक्त:73» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
विद्वानों से समागम का उपदेश।
पदार्थान्वयभाषाः - [हे विद्वानो !] (यः) जो (शुष्मः) पराक्रम (वः) तुम्हारे (हृदयेषु अन्तः) हृदयों में भरा है, और (या) जो (आकूतिः) उत्साह वा शुभसंकल्प (वः) तुम्हारे (मनसि) मन में (प्रविष्टा) प्रवेश हो रहा है। [उसी के कारण] (हविषा) उत्तम अङ्ग से और (घृतेन) जल से (तान्) उन तुम सब की (सीवयामि=सेवे) मैं सेवा करता हूँ, (सजाताः) हे समान जन्मवाले बान्धवो ! (वः) तुम्हारी (रमतिः) क्रीड़ा [प्रसन्नता] (मयि) मुझ में (अस्तु) होवे ॥२॥
भावार्थभाषाः - मनुष्य यथावत् शुश्रुषा करके विद्वानों से उत्तम-उत्तम विद्यायें ग्रहण करके अपने आत्मा को सदा सन्तुष्ट करते रहें ॥२॥
टिप्पणी: २−(यः) (वः) युष्माकम् (शुष्मः) पराक्रमः। बलम् निघ० २।९। (हृदयेषु) विषयाणां ग्रहणशीलेषु चित्तेषु (अन्तः) मध्ये (आकूतिः) उत्साहः। शिवसंकल्पः (या) (वः) (मनसि) मननसाधने। अन्तःकरणे (प्रविष्टा) अन्तर्गता (तान्) तथाविधान् युष्मान् (सीवयामि) षेवृ सेवायाम्, एकारस्य ईत्वं चुरादित्वं च छान्दसम्। अहं सेवे। शुश्रूषयामि (हविषा) हव्येन देवयोग्यान्नेन (घृतेन) उदकेन−निघ० १।१२। (मयि) उपासके (सजाताः) हे समानजन्मानो बान्धवाः (रमतिः) रमेर्नित्। उ० ४।६३। इति रमु क्रीडायाम्−अति। क्रीडा। मनःप्रसन्नता (वः) युष्माकम् (अस्तु) भवतु ॥