अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
पद पाठ
अयस्मये । द्रुऽपदे । बेधिषे । इह । अभिऽहित: । मृत्युऽभि: । ये । सहस्रम् । यमेन । त्वम् । पितृऽभि: । सम्ऽविदान: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥६३.३॥
अथर्ववेद » काण्ड:6» सूक्त:63» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
मोक्षप्राप्ति का उपदेश।
पदार्थान्वयभाषाः - [हे मनुष्य !] (इह) यहाँ पर (मृत्युभिः) मृत्यु के कारणों से, (ये) जो (सहस्रम्) सहस्र प्रकार हैं, (अभिहितः) घिरा हुआ तू (अयस्मये) लोहे से जकड़े हुए (द्रुपदे) काठ के बन्धन में (बेधिषे=बध्यसे) बँध रहा है। (यमेन) नियम के साथ (पितृभिः) पालन करनेवाले ज्ञानियों से (संविदानः) मिला हुआ (त्वम्) तू (इमम्) इस पुरुष को (उत्तमम्) उत्तम (नाकम्) आनन्द में (अधि रोहय) ऊपर चढ़ा ॥३॥
भावार्थभाषाः - जो मनुष्य पापों के कारण बड़े-बड़े कष्ट उठाते हैं, वे विद्वानों से ज्ञान प्राप्त करके मोक्षपद प्राप्त करें ॥३॥
टिप्पणी: ३−(अयस्मये) अयोमये (द्रुपदे) दारुनिर्मिते पादबन्धने (बेधिषे) बन्ध बन्धने कर्मणि−लट्। छन्दस्युभयथा। पा० ३।४।११७। इति सार्वधातुकार्धधातुकत्वाद् नलोपः, यगभाव इडागमश्च, छान्दसमेत्वम्। बध्यसे बद्धो भवसि (इह) अस्मिन् लोके (अभिहितः) अभिपूर्वो दधातिर्बन्धने। वेष्टितः (मृत्युभिः) मरणकारणैः। महाकष्टैः (ये) (सहस्रम्) अनेकविधम् (यमेन) नियमेन (त्वम्) मनुष्यः (पितृभिः) पालकैर्महात्मभिः (संविदानः) अ० २।२८।२। संगच्छमानः (उत्तमम्) श्रेष्ठम् (नाकम्) अ० १।९।२। दुःखरहितं कं सुखम् (अधि रोहय) उपरि प्रापय (इमम्) आत्मानम् ॥