अ॒हं वि॑वेच पृथि॒वीमु॒त द्याम॒हमृ॒तूंर॑जनयं स॒प्त सा॒कम्। अ॒हं स॒त्यमनृ॑तं॒ यद्वदा॑म्य॒हं दैवीं॒ परि॒ वाचं॒ विश॑श्च ॥
पद पाठ
अहम् । विवेच । पृथिवीम् । उत । द्याम् । अहम् । ऋतन् । अजनयम् । सप्त । साकम् । अहम् । सत्यम् । अनृतम् । यत् । वदामि । अहम् । दैवीम् । परि । वाचम् । विश: । च॥६१.२॥
अथर्ववेद » काण्ड:6» सूक्त:61» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
परमेश्वर की महिमा का उपदेश।
पदार्थान्वयभाषाः - (अहम्) मैंने (पृथिवीम्) पृथिवी (उत) और (द्याम्) सूर्य को (विवेच) पृथक्-पृथक् किया, (अहम्) मैंने (सप्त) सात (ऋतून्) व्यापनशील [त्वचा, नेत्र, कान, जिह्वा, नाक, मन और बुद्धि] को (साकम्) आपस में मिला हुआ (अजनयम्) उत्पन्न किया है। (अहम्) मैं (यत्) जो कुछ (सत्यम्) सत्य और (अनृतम्) झूठ है [उसे] (च) और (अहम्) मैं (देवीम्) विद्वानों में होनेवाली (वाचम्) वाणी को (विशः परि) सब मनुष्यों में भरपूर (वदामि) बताता हूँ ॥२॥
भावार्थभाषाः - परमेश्वर ने पृथिवी सूर्य आदि पदार्थों को रचकर सत्य का विधान और असत्य का निषेध वेद द्वारा सब प्राणियों को बताया है ॥२॥
टिप्पणी: २−(अहम्) परमेश्वरः (विवेच) विचिर् पृथग्भावे−लिट्। पृथक् पृथक् कृतवान् (पृथिवीम्) भूमिम् (उत) अपि च (द्याम्) सूर्यलोकम् (अहम्) (ऋतून्) अर्तेश्च−तुः। उ० १।७२। इति ऋ गतौ−तु, स च कित्। ऋतुरर्तेर्गतिकर्मणः−निरु० २।२५। ऋषयः षडिन्द्रियाणि विद्या सप्तमी−निरु० १२।३७। सप्त ऋषीन्। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धिरूपान् (अजनयम्) उत्पादितवानस्मि (साकम्) सह परस्परं संहतान् (अहम्) (सत्यम्) यथार्थम् (अनृतम्) (यत्) यत् किञ्चित् तदपि (वदामि) कथयामि विधिनिषेधरूपेण (अहम्) (दैवीम्) देव−अञ्। विद्वत्सु भवाम् (परि) परीत्य व्याप्य (वाचाम्) वेदवाणीम् (विशः) मनुष्यान् निघ० २।३। (च) समुच्चये ॥