वांछित मन्त्र चुनें

शर्म॑ यच्छ॒त्वोष॑धिः स॒ह दे॒वीर॑रुन्ध॒ती। कर॒त्पय॑स्वन्तं गो॒ष्ठम॑य॒क्ष्माँ उ॒त पूरु॑षान् ॥

मन्त्र उच्चारण
पद पाठ

शर्म । यच्छतु । ओषधि: । सह । देवी: । अरुन्धती । करत् । पयस्वन्तम् । गोऽस्थम् । अयक्ष्मान् । उत । पुरुषान् ॥५९.२॥

अथर्ववेद » काण्ड:6» सूक्त:59» पर्यायः:0» मन्त्र:2


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

सब सुख की प्राप्ति का उपदेश।

पदार्थान्वयभाषाः - (ओषधिः) तापनाशक (अरुन्धती) न रोक डालनेवाली शक्ति परमेश्वर (देवीः सह=देवीभिः सह) उत्तम क्रियाओं के साथ (शर्म) शरण (यच्छतु) देवे। (गोष्ठम्) हमारी गोशाला को (पयस्वन्तम्) बहुत दुग्धवाली (उत) और (पुरुषान्) पुरुषों को (अयक्ष्मान्) नीरोग (करत्) करे ॥२॥
भावार्थभाषाः - मनुष्य अपने घरों में अन्न आदि पदार्थ प्राप्त करके सदा स्वस्थ रहें ॥२॥
टिप्पणी: २−(शर्म) शरणम् (यच्छतु) ददातु (ओषधिः) अ० १।२३।१। तापनाशयित्री (देवीः सह) तृतीयार्थे द्वितीया। देवीभिर्दिव्यक्रियाभिः सहिता (अरुन्धती) अरोधनशक्तिः परमेश्वरः (करत्) कुर्यात् (पयस्वन्तम्) प्रभूतदुग्धयुक्तम् (गोष्ठम्) गोनिवासदेशम् (अयक्ष्मान्) राजरोगरहितान् (उत) अपि च (पुरुषान्) सम्बन्धिनो मनुष्यान् ॥