वांछित मन्त्र चुनें

मा नो॑ देवा॒ अहि॑र्वधी॒त्सतो॑कान्त्स॒हपू॑रुषान्। संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑म॒न्नमो॑ देवज॒नेभ्यः॑।

मन्त्र उच्चारण
पद पाठ

मा । न: । देवा: । अहि: । वधीत् । सऽतोकान् । सहऽपुरुषान् । सम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । न । सम् । यतम् । नम: । देवऽजनेभ्य: ॥५६.१॥

अथर्ववेद » काण्ड:6» सूक्त:56» पर्यायः:0» मन्त्र:1


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

दोष के नाश के लिये उपदेश।

पदार्थान्वयभाषाः - (देवाः) हे विद्वानो ! (सतोकान्) सन्तानों सहित और (सहपूरुषान्) पुरुषों सहित (नः) हमको (अहिः) चोट देनेवाला सर्प [सर्प तुल्य अपना दोष] (मा वधीत्) न काटे। वह (संयतम्) मुँदे हुए मुख को (न) न (वि स्परत्) खोले और (व्यात्तम्) खुले मुख को (न) न (सम् यमत्) मूँदे। (देवजनेभ्यः) विद्वान् जनों को (नमः) नमस्कार है ॥१॥
भावार्थभाषाः - मनुष्य विद्वान् महात्माओं से शिक्षा पाकर अपने और अपने सन्तानों और बान्धव भृत्य आदि पुरुषों के दोषों को इस प्रकार निर्बल करदें जैसे दुष्ट सर्प को मार-मार कर निर्बल कर देते हैं ॥१॥
टिप्पणी: १−(मा वधीत्) हन्तेर्लुङि। मा हिंसीत् (नः) अस्मान् (देवाः) हे विद्वांसः (अहिः) आङि श्रिहनिभ्यां हस्वश्च। उ० ४।१३८। इति आङ्+हन हिंसागत्योः−इञ्, स च डित्, आङो ह्रस्वश्च। आहननशीलः सर्पः। सर्पतुल्य आत्मदोषः (सतोकान्) अपत्यैः सहितान् (सहपूरुषान्) बान्धवभृत्यादिसहितान् (संयतम्) संकुचितम् (न) निषेधे (वि) विवृत्य (स्परत्) स्पृ प्रीतिचलनयोः−लेट्। चालयेत् (व्यात्तम्) अच उपसर्गात् तः। पा० ७।४।४७। इति व्याङ् पूर्वाद् दाञो निष्ठायां तकारः। विवृतं मुखम् (न) (संयमत्) संश्लिष्येत् (नमः) सत्कारः (देवजनेभ्यः) विद्वत्पुरुषेभ्यः ॥