इ॑दावत्स॒राय॑ परिवत्स॒राय॑ संवत्स॒राय॑ कृणुता बृ॒हन्नमः॑। तेषां॑ व॒यं सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म ॥
पद पाठ
इदावत्सराय । परिऽवत्सराय । सम्ऽवत्सराय । कृणुत । बृहत् । नम: । तेषाम् । वयम् । सुऽमतौ । यज्ञियानाम् । अपि । भद्रे। सौमनसे । स्याम ॥५५.३॥
अथर्ववेद » काण्ड:6» सूक्त:55» पर्यायः:0» मन्त्र:3
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
सब सम्पत्ति प्राप्ति के लिये उपदेश।
पदार्थान्वयभाषाः - (परिवत्सराय) सब ओर से निवास करानेवाले पिता को, (इदावत्सराय) विद्या में निवास करानेवाले आचार्य को और (संवत्सराय) यथानियम निवास करानेवाले राजा को तुम (बृहत्) बहुत-बहुत (नमः) नमस्कार (कृणुत) करो। (तेषाम्) उन (यज्ञियानाम्) उत्तम व्यवहार करने हारों के (अपि) ही (सुमतौ) सुमतिवाले और (भद्रे) कल्याणकारक (सौमनसे) हार्दिक स्नेह में (वयम्) हम लोग (स्याम) रहें ॥३॥
भावार्थभाषाः - मनुष्य माता-पिता, आचार्य और राजा की आज्ञा सत्कारपूर्वक मानकर उत्तम विद्या प्राप्त करके आनन्द से रहें ॥३॥ इस मन्त्र का उत्तरार्द्ध यजुर्वेद में है−अ० १९।५० ॥
टिप्पणी: ३−(इदावत्सराय) इडा+वत्सराय, डस्य दः। वसेश्च। उ० ३।७१। इति वस निवासे−सरन्। सः स्यार्धधातुके। पा० ७।४।४९। इति सस्य तकारः। इडायां विद्यायां निवासकायाचार्याय (परिवत्सराय) परितो निवासकाय जनकाय (संवत्सराय) संपूर्वाच्चित्। उ० ३।७२। इति सम्+वस−सरन्, स च चित् तत्वं च। सम्यग् यथाविधि निवासकाय राज्ञे (कृणुत) कुरुत (बृहत्) प्रभूतम् (नमः) नमस्कारम् (तेषाम्) (वयम्) (सुमतौ) शोभनबुद्धियुक्ते (यज्ञियानाम्) यज्ञर्त्विग्भ्यां घखञौ। पा० ५।१।७१। इति घ प्रत्ययः। पूजार्हाणां विदुषाम् (अपि) एव (भद्रे) कल्याणकारके (सौमनसे) सुमनस्−अण्। सुमनसो भावे। हार्दिक−स्नेहे (स्याम) भवेम ॥