आपो॑ अ॒स्मान्मा॒तरः॑ सूदयन्तु घृ॒तेन॑ नो घृत॒प्वः पुनन्तु। विश्वं॒ हि रि॒प्रं प्र॒वह॑न्ति दे॒वीरुदिदा॑भ्यः॒ शुचि॒रा पू॒त ए॑मि ॥
पद पाठ
आप: । अस्मान् । मातर: । सूदयन्तु । घृतेन । न: । घृतऽप्व: । पुनन्तु । विश्वम् । हि । रिप्रम् । प्रऽवहन्ति । देवी: । उत्। इत् । आभ्य: । शुचि: । आ । पूत: । एमि ॥५१.२॥
अथर्ववेद » काण्ड:6» सूक्त:51» पर्यायः:0» मन्त्र:2
बार पढ़ा गया
पण्डित क्षेमकरणदास त्रिवेदी
द्रोह के नाश का उपदेश।
पदार्थान्वयभाषाः - (मातरः) माता के समान पालन करनेवाले (आपः) जल (अस्मान्) हम को (सूदयन्तु) सींचें, (घृतप्वः) घृतको पवित्र करनेवाले [जल] (घृतेन) घृत से (नः) हमको (पुनन्तु) पवित्र करें। (देवीः) दिव्यगुणयुक्त जल (विश्वम्) सब (हि) ही (रिप्रम्) मल को (प्रवहन्ति) बहा देते हैं, (आभ्यः) इन जलों से (इत्) ही (शुचिः) शुद्ध और (आ पूतः) सर्वथा पवित्र होकर (उत् एमि) मैं ऊँचा चलता हूँ ॥२॥
भावार्थभाषाः - जैसे जल अन्न आदि पदार्थ उत्पन्न करके मलों को शुद्ध करके और अनेक शिल्पों में प्रयुक्त होकर उपकार होते हैं, वैसे ही मनुष्य विद्या आदि शुभ गुण प्राप्त करके परस्पर उपकार करके उदय को प्राप्त हों ॥२॥ यह मन्त्र कुछ भेद से यजुर्वेद में है−अ० ४।२ ॥
टिप्पणी: २−(आपः) जलानि (अस्मान्) मनुष्यादीन् (मातरः) मातृवत्पालिकाः (सूदयन्तु) षूद क्षरणे। सिञ्चन्तु। शुन्धयन्तु (घृतेन) आज्येन (नः) अस्मान् (घृतप्वः) घृत+पूञ् पवने−क्विप्। घृतं पुनन्ति यास्ता आपः (पुनन्तु) पवित्रयन्तु (विश्वम्) सर्वम् (हि) खलु (रिप्रम्) लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। उ० ५।५५। इति रीङ् श्रवणे−र प्रत्ययः, ह्रस्वः पुट् च। रपो रिप्रमिति पापनामनी भवतः−निरु० ४।२१। कुत्सितं मलम् (प्रवहन्ति) प्रकर्षेण क्षालयन्ति, अपगमयन्ति (देवीः) देव्यः। दिव्यगुणयुक्ताः (उत्) उदित्य (इत्) एव (आभ्यः) अद्भ्यः (शुचिः) शुद्धः (आ) समन्तात् (पूतः) पवित्रः (एमि) गच्छामि ॥