वांछित मन्त्र चुनें

उप॑हूतौ स॒युजौ॑ स्यो॒नौ दन्तौ॑ सुम॒ङ्गलौ॑। अ॒न्यत्र॑ वां घो॒रं त॒न्वः परै॑तु दन्तौ॒ मा हिं॑सिष्टं पि॒तरं॑ मा॒तरं॑ च ॥

मन्त्र उच्चारण
पद पाठ

उपऽहूतौ । सऽयुजौ । स्योनौ । दन्तौ । सुऽमङ्गलौ । अन्यत्र । वाम् । घोरम् । तन्व: । परा । एतु । दन्तौ । मा । हिंसिष्टम् । पितरम् । मातरम् । च ॥१४०.३॥

अथर्ववेद » काण्ड:6» सूक्त:140» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

बालक के अन्नप्राशन का उपदेश।

पदार्थान्वयभाषाः - (उपहूतौ) आपस में स्पर्धावाले, (सयुजौ) एक दूसरे से मिले हुए (दन्तौ) दोनों ओर के दाँत (स्योनौ) सुख देनेवाले और (सुमङ्गलौ) बड़े मङ्गलवाले होवें। (दन्तौ) हे दोनों ओर के दाँतो ! (वाम्) तुम्हारा (घोरम्) दुःखदायी कर्म [बालक के] (तन्वः) शरीर से (अन्यत्र) अलग (परा एतु) चला जावे (पितरम्) इसके पिता (च) और (मातरम्) माता को (मा हिंसिष्टम्) मत काटो ॥३॥
भावार्थभाषाः - माता-पिता बालक के नवे निकले दाँतों को मुलहटी आदि ओषधि से स्वस्थ करें, जिससे वे सब सुख से निकलें ॥३॥
टिप्पणी: ३−(उपहूतौ) ह्वेञ् स्पर्धायां शब्दे च−क्त। परस्परस्पर्धायुक्तौ (सयुजौ) समानं युञ्जानौ (स्योनौ) सुखकरौ (दन्तौ) उभयतो दन्तगणौ (सुमङ्गलौ) सुमङ्गलकरौ (अन्यत्र) पृथक् स्थाने (वाम्) युवयोः (घोरम्) क्रूरं कर्म (तन्वः) शिशुशरीरात् (परा) (दूरे) (एतु) गच्छतु। अन्यत्पूर्ववत्−म० २ ॥