वांछित मन्त्र चुनें

यो जि॒नाति॒ तमन्वि॑च्छ॒ यो जि॒नाति॒ तमिज्ज॑हि। जि॑न॒तो व॑ज्र॒ त्वं सी॒मन्त॑म॒न्वञ्च॒मनु॑ पातय ॥

मन्त्र उच्चारण
पद पाठ

य: । जिनाति । तम् । अनु । इच्छ । य: । जिनाति । तम् । इत् । जहि । जिनत: । वज्र । त्वम् । सीमन्तम् । अन्वञ्चम् । अनु । पातय ॥१३४.३॥

अथर्ववेद » काण्ड:6» सूक्त:134» पर्यायः:0» मन्त्र:3


बार पढ़ा गया

पण्डित क्षेमकरणदास त्रिवेदी

शत्रुओं के शासन का उपदेश।

पदार्थान्वयभाषाः - (यः) जो पुरुष (जिनाति) अत्याचार करे, (तम्) उसको (अनु इच्छ) ढूँढ ले, (यः) जो (जिनाति) उपद्रव करे (तम् इत्) उसी को (जहि) मार डाल, (वज्र) हे वज्रधारी (त्वम्) तू (जिनतः) अत्याचारी के (सीमन्तम्) मस्तक को (अन्वञ्चम्) लगातार (अनुपातय) गिराये जा ॥३॥
भावार्थभाषाः - राजा नीतिपूर्वक दुराचारियों को सदा दण्ड देवे ॥३॥
टिप्पणी: ३−(यः) दुराचारी (जिनाति) ज्या वयोहानौ। ग्रहिज्या०। पा० ६।१।१६। इति संप्रसारणम्। हानिं करोति (तम्) (अन्विच्छ) अन्वेषणेन प्राप्नुहि (इत्) एव (जहि) मारय (जिनतः) हानिं कुर्वतः पुरुषस्य (वज्र) अर्शआद्यच्। वज्रधारिन्, (सीमन्तः) शरीरस्य सीम्नोऽन्तः। शकन्ध्वादित्वात् पररूपम्। शिरः (अन्वञ्चम्) अनु+अञ्चु गतौ−क्विन्। अनु पश्चात् अनुक्रमेण प्राप्तम् (अनु) पश्चात् (पातय) अधो गमय ॥